सामग्री पर जाएँ

तप्तमाष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तप्तमाष¦ पु॰ तप्तं माषमितं सुवर्णादिकं यत्र। दिव्यभेदे। तद्विधिः वीरमित्रोदये दर्शितो यथातत्र पितामहः
“तप्तमाषस्य वक्ष्यामि विधिमुद्धरणेशुभम्। कारयेदायसम्पात्रं ताम्रं वा षोडशाङ्गुलम्। चतुरङ्गुलखातन्तु मृण्मयं वापि मण्डलम्”। कर्ष-षोडशांशप्रमितं मण्डलं सूर्य्यमण्डलाकारं वर्त्तुल-मिति यावत्। एतादृशं पात्रं घृततैलाभ्यां पूरयेदि-त्याह स एव
“पूरयेद्घृततैलाभ्यां पलैर्विंशतिभिस्तुतत्। सुवर्णं माषकन्तस्मिन् सुतप्ते निःक्षिपेत्ततः। अङ्गुष्ठाङ्गुलिमूलेन तप्तमाषकमुद्धरेत्” इति। सुवर्णमाष-कङ्कर्षषोडशांशप्रमाणम्। सुवर्णग्रहणं रूप्यमाषनिवृ-त्त्वर्थम्। तन्माषपरिमितं हिरण्यं ताम्रं वा पिण्डी-कृत्य निःक्षिपेत्। अङ्गुष्ठाङ्गुलिमूलेन अङ्गुष्ठतर्जनीम-ध्यमाभिरित्यर्थः। इदञ्च तप्तमाषोद्धरणम् प्राड्विवाकेन घृततैलयोस्तापे समारब्धे धर्मावाहनादिशोध्यशिरःपत्रारीपणान्तं सर्वसाधारणं कर्म विधाय
“त्वमग्ने। वेदाश्चत्वारः” इत्यादिना अग्निदिव्यप्रकरणोक्तेम मन्त्रे-णाभिमन्त्र्य कारयितव्यम् शोध्यस्तु याज्ञवल्क्योक्तेन
“त्वमग्ने! सर्वभूतानामित्यादि” मन्त्रेणाभिमन्त्र्य तप्त-माषमुद्धरेत्। अतएव वृहस्पतिः
“समुद्धरेत्तैलघृतात् सुत-प्तात्तप्तमाषकमिति”। कल्पान्तरमाह स एव
“सौवर्णेराजते ताम्रे वायसे मृण्मयेऽपि वा। गव्यं घृतमुपा-दाय तदग्नौ तापयेच्छुचिः। सौवर्णीं राजतीं ताम्री-मायसीं वा सुशोभनाम्। सलिलेन सकृद्धौतां प्रक्षिपे-[Page3235-a+ 38] त्तत्र मुद्रिकाम्। भ्रमद्वोचितरङ्गाद्ये ह्यनखस्पर्शगोचरे। परीक्षेदार्द्रपर्णेन चटत्कारसवोषकमिति”। ततःप्राड्विवाको धर्मावाहनादिपत्रारोपणान्तं साधारणंकर्म कृत्वा घृतमभिमन्त्रयेत्। मन्त्रस्तु तेनैव दर्शितः
“तत-श्चानेन मन्त्रेण सकृत्तदभिमन्त्रयेत्। परं पवित्रममृतंघृत! त्वं यज्ञकर्मसु। दह पावक! पापं त्वं हिमशीतोभवेति च”। ततः प्राड्विवाकः शोध्येन
“त्वमग्ने!सर्वभूतानामित्यादि मन्त्रेणाभिमन्त्रणं कारयित्वामुद्रिकां ग्राहयेदित्याह स एव
“उपोषितन्ततः स्नात-मार्द्रवासःसमावृतम्। ग्राहयेन्मुद्रिकान्तान्तु घृतमध्यग-तान्तथा। प्रदेशिनीं च तस्याथ परीक्षेयुः परीक्षकाः” इति। अत्र तर्जन्यैव मुद्रिकोद्धरणं कार्य्यं तस्यांपरीक्षाभिधानात् पक्षद्वयेऽपि शुद्ध्यवधारणोपायं वृहस्प-तिराह
“कराग्रं योन धुनुयात् विस्फोटो वा नजायते। शुद्धो भवति धर्मेण पितामहवचो यथेति”। कालिकापुराणेऽपि
“न धुनेयुः कराग्रन्तु यस्य रक्तंन जायते। विस्फोटाद्यैस्तथा दोषैः स शुद्धो यस्यनोद्गतमिति”। रक्तं रक्तवर्णम्। यस्य कराग्रं विस्फो-टाद्यैर्नोद्गतमित्यन्वयः। पितामहोऽपि
“यस्य विस्फो-टका न स्युः शुद्धोऽसावन्यथाऽशुचिरिति”। तण्डुलपरीक्षाशब्दे अधिकं दृश्यम्।

"https://sa.wiktionary.org/w/index.php?title=तप्तमाष&oldid=396742" इत्यस्माद् प्रतिप्राप्तम्