तरुणः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुणः, पुं, (तॄ + उनन् ।) स्थूलजीरकः । एरण्डः । इति राजनिर्घण्टः ॥

तरुणः, त्रि, (तरति प्लवते प्रमोदसलिले इति । तॄ + त्रो रश्च लो वा ।” उणां । ३ । ५४ । इति उनन् ।) युवा । इति मेदिनी । णे, ४९ । (यथा, महाभारते । १ । ४० । २६ । “तरुणस्तस्य पुत्त्रोऽभूत्तिग्मतेजा महातपाः ॥”) नूतनः । इति धरणिः ॥ (यथा, छन्दोमञ्जर्य्याम् । “तरुणं सर्षपशाकं नवौदनं पिच्छिलानि दधीनि । स्वल्पव्ययेन सुन्दरि ! ग्राम्यजनोमिष्टमश्नाति ॥”)

"https://sa.wiktionary.org/w/index.php?title=तरुणः&oldid=137351" इत्यस्माद् प्रतिप्राप्तम्