तरुणी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुणी, स्त्री, (तरुण + गौरादित्वात् ङीष् ।) द्बितीयवयाः स्त्री । (यथा, -- “ततस्तु तरुणी ज्ञेया द्बात्रिंशद्बत्सरावधि । निदाघशरदोर्बाला हिता विषयिणी मता ॥ तरुणी शीतसमये ॥” ‘नित्यम्बाला सेव्यमाना नित्यं वर्द्धयते बलम् । तरुणी ह्नासयेच्छक्तिम् ॥” “वृद्धोऽपि तरुणीं गत्वा तरुणत्वमवाप्नुयात् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥) भूयोभूयः प्रवर्त्तमानरजाः स्त्री । इत्यमरटीका- सारसुन्दरी ॥ तत्पर्य्यायः । युवती २ । इत्य- मरः । २ । ६ । ८ ॥ तलुनी ३ युवतिः ४ । इति भरतः ॥ यूनी ५ दिक्करी ६ धनिका ७ धनीका ८ । इति शब्दरत्नावली ॥ गृहकन्या । दन्तीवृक्षः । चीडानामगन्धद्रव्यम् । पुष्पविशेषः । सेउती इति भाषा ॥ तत्पर्य्यायः । सहा २ कुमारी ३ गन्धाढ्या ४ चारुकेशरा ५ भृङ्गेष्टा ६ रामतरुणी ७ सुदला ८ बहुपत्रिका ९ भृङ्ग- वल्लभा १० । इति राजनिर्घण्टः ॥ सेवती ११ । यथा, नारसिंहपुराणे । “चम्पकात् पुष्पशतकादशोकं पुष्पमुत्तमम् । अशोकात् पुष्पसाहस्रात् सेवतीपुष्पमुत्तमम् । सेवतीपुष्पसाहस्रात् कुब्जकं पुष्पमुत्तमम् ॥” (यथा, भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ “शतपत्री तरुण्युक्ता कर्णिका चारुकेशरा । महाकुमारी गन्धाढ्या लाक्षाकृष्णातिमञ्जला ॥” अस्या गुणाः । शिशिरत्वम् । स्निग्धत्वम् । पित्तदाहज्वरमुखपाकतृष्णाविच्छर्द्दिनाशित्वम् । मधुरत्वञ्च । इति राजनिर्घण्टः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुणी स्त्री।

यौवनयुक्ता

समानार्थक:तरुणी,युवति

2।6।8।2।3

कन्या कुमारी गौरी तु नग्निकानागतार्तवा। स्यान्मध्यमा दृष्टरजास्तरुणी युवतिः समे॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुणी¦ स्त्री तरुण + मध्यमवयोवाचित्वात् ङीष्।

१ युबत्यांस्त्रियां
“व्याकीर्णमाल्यकवरां कवरीं तरुण्याः”।
“स्तनौ तरुण्यः परिवव्रुरेनम्” माघः।

२ घृतकुमार्य्यां

३ दन्तीवृक्षे

४ चिडानामगन्धद्रव्ये

५ कुब्जवृक्षे (सेउती) चराजनि॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तरुणी f. ( g. गौरा-दि)a young woman , girl R. Sus3r. etc.

तरुणी f. of ण.

तरुणी ind. of ण.

"https://sa.wiktionary.org/w/index.php?title=तरुणी&oldid=397620" इत्यस्माद् प्रतिप्राप्तम्