सामग्री पर जाएँ

तान्दुर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तान्दुर¦ न॰ तन्दुरेण पाकयन्त्रभेदेन निर्वृत्तम् अण्। तन्दूर-पक्वे मांसभेदे तत्पाकविधिः शब्दार्थचि॰ धृतवाक्ये यथा(
“अङ्गारपूर्णगर्त्ते यदलग्नमवलम्बितम्। संस्कृतंपिहितं मांसं पक्वं तान्दुरमुच्यते” सुस्वादु तान्तुरन्तु।
“पचेद्गर्त्तेऽन्तरीक्षस्थं लम्बि सम्भारसम्भृतम्। चतुर्दिङ-मण्डलाकारं पार्श्वप्रज्वलितानले। विपक्वं सुरभि स्वादुतान्दूरमिति कीर्त्तितम्। अन्यच्च।
“कोथिकायांसुसम्भारमलग्नमवलम्बितम्। मांसं पिधाय बाह्याग्नि-ज्वालया स्वेदितम् वरम्। तान्दुरं रुचिदं बल्यं मृदुपथ्यतमं स्मृतम्। सद्योहतं नवं स्थूलमन्यथा दोष-कारणमिति”

"https://sa.wiktionary.org/w/index.php?title=तान्दुर&oldid=399233" इत्यस्माद् प्रतिप्राप्तम्