सामग्री पर जाएँ

तापदुःख

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तापदुःख¦ न॰ तापरूपं दुःखम्।
“पातञ्जलोक्ते दुःखभेदे
“परिणामतापसस्कारदुःखैर्गुणवृत्तिविरोधाच्च दुःखमेवसर्वं विवेकिनः” सू॰।
“ते जन्मायुर्भोगाः पुण्य-हेतकाः सुखफलाः, अपुण्यहेतुकाः दुःखफलाइति। यथा चेदं दुःखं प्रतिकूलात्मकं एवं विषयसुखकालेऽपि दुःखमस्त्येव प्रतिकलात्मकं योगिनः। कथं तदुपपद्यते”।
“अथ का तापदुःखता सर्वस्य द्वेषानु-त्रिद्धश्चेतनाचेतनसाधनाधीनस्तापानुभव इति। तत्रास्तिद्वेषजः कर्म्माशयः सुखसाधनानि च प्रार्थयानःकायेन वाचा मनसा च परिस्पन्दते ततः परमनु-गृह्णात्युपहन्ति वेति परानुग्रहपीडाभ्यां धर्म्माधर्मा-वुपचिनोति स कर्म्माशयो लोभान्मोहाच्च भवती-त्येषा तापदुःखतोच्यते” भा॰।
“ते जन्मायुर्भोगा इतियद्यपि जन्मायुषोरेव ह्लादपरितापपूर्वभावितयातत्फलत्वं न तु भोगस्य ह्लादपरितापोदयानन्तरभाविन-स्तदनुभवात्मनस्तथाप्यनुभाव्यतया भोग्यतया भोगकर्म्म-तामात्रेण भोगफलत्वमिति मन्तव्यं नन्वपुण्यहेतुका जा-त्यायुर्भोगाः परितापफला भवन्तु हेयाः प्रतिकुलवेदनी-यत्वात्। कस्मात्? पुनः पुण्यहेतवस्त्यज्यन्ते सुखफलाःअनुकूलवेदनीयत्वात्, न चैषां प्रत्यात्मवेदनीयानुकूलताशक्या सहस्रेणाप्यनुमानागमैरपाकर्त्तुं, न च ह्लाद-परितापौ परस्पराविनाभूतौ यतो ह्लाद उपादीयमाने-नैव परितापोऽप्यवर्जनीयतयापतेत् तयोर्भिन्नहेतु-कत्वाद्भिन्नरूपत्वात् चेत्यत आह यथाचेदमिति” विवरणम्।

"https://sa.wiktionary.org/w/index.php?title=तापदुःख&oldid=399269" इत्यस्माद् प्रतिप्राप्तम्