सामग्री पर जाएँ

तामसकील

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तामसकील¦ पु॰ तामसः राहुसुतः कील इव। वृ॰ स॰

३ अ॰ उक्तेराहुसुते केतुभेदे। तन्निमित्तोत्पातभेदस्तत्रोक्तो यथा
“तामसकीलसङ्ज्ञका राहुसुताः केतवस्त्रयस्त्रिंशत्। वर्णस्थानाकारैस्तान्दृष्ट्रार्के फलं ब्रूयात्। ते चार्क-मण्डलगताः पापफलाश्चन्द्रमण्डले सौम्याः। ध्वाङ्क्षा-कबन्धप्रहरणरूपाः पापाः शशाङ्केऽपि। तेषामुदयेरूपाण्यम्भः कलुषं रजोवृतं व्योम। नगतरुशिख-[Page3272-a+ 38] रविमर्दी सशर्करो मारुतश्चण्डः। ऋतुविपरीतास्त-रवो दीप्ता मृगपक्षिणो दिशां दाहः। निर्घातम-हीकम्पादयो भवन्त्यत्र चोत्पाताः। न पृथक् फलानितेषां शिखिकीलकराहुदर्शनानि यदि। तदुदयका-रणमेषां केत्वादीनां फलं ब्रूयात्”।
“यस्मिन् यस्मिन्देशे दर्शनमायान्ति सूर्यविम्बस्थाः। तस्मिंस्तस्मिन्व्यसनं महीपतीनां परिज्ञेयम्। क्षुत्प्रम्लानशरीरामुनयोऽप्युत्सृष्टधर्मसच्चरिताः। निर्मांसवालहस्ताःकृच्छ्रेणायान्ति परदेशम्। तस्करविलुप्तवित्ताः प्रदी-र्घनिःश्वासाकुलिताक्षिपुटाः। सन्तः सन्नशरीराः शोको-द्भववाष्परुद्धदृशः। क्षामा जुगुप्समानाः स्वनृपतिपर-चक्रपीडिता मनुजाः। स्वनृपतिचरितं कर्म चपराकृतं प्रव्रुवन्त्यन्ये। गर्भेष्वपि निष्पन्ना वारि-मुचो न प्रभूतवारिमुचः। सरितो यान्ति तनुत्वंक्वचित् क्वचिज्जायते सस्यम्। दण्डे नरेन्द्रमृत्युर्व्या-धिभयं स्यात् कबन्धसंस्थाने। ध्वाङ्क्षे च तस्करभयंदुर्भिक्षं कीलकेऽर्कस्थे। राजोपकरणरूपैश्छत्रध्वजचा-मरादिभिर्विद्धः। राजान्यत्वकृदर्कः स्फुलिङ्गधूमादि-भिर्जनहा। एको दुर्भिक्षकरो द्व्याद्याः स्युर्नरपते-र्विभाशाय। सितरक्तपीतकृष्णैस्तैर्बिद्धोऽर्कोऽनुवर्णघ्नः। दृश्यन्ते च यतस्ते रविबिम्बस्योत्थिता महोत्पाताः। आगच्छति लोकानां तेनैव भयं प्रदेशेन”। स्वार्थे क तत्रार्थे। त्रिंशत्त्र्यधिकाराहोस्ते तामस-कीलका इति ख्याताः वृ॰ स॰

११ अ॰।

"https://sa.wiktionary.org/w/index.php?title=तामसकील&oldid=399502" इत्यस्माद् प्रतिप्राप्तम्