सामग्री पर जाएँ

तामसध्यान

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तामसध्यान¦ न॰ वटुकभैरवस्य ध्येयरूपभेदे।
“तस्य ध्यानंत्रिधा प्रोक्तं सात्त्विकादिप्रभेदतः” इत्युपक्रमे सात्त्विक-राजसे उक्त्वा तामसध्यानमुक्तं तन्त्रसारे यथा(
“ध्यायेज्रीलाद्रिकान्तं शशिशकलधरं मुण्डमालंमहेशं दिग्वस्त्रं पिङ्गलाभं डमरुमथ सृणिं शङ्खशूला-भयानि। नागं घण्टां कपालं कररसिरुहैर्बिभ्रतं भीम-दंष्ट्रं सर्पाकल्पं त्रिनेत्रं मणिमयविलसत्किङ्किणीनूपुरा-ढ्यम्”
“तामसं शत्रुशमनं कृत्याभूतगदापहम्” तन्त्रसा॰।

"https://sa.wiktionary.org/w/index.php?title=तामसध्यान&oldid=399514" इत्यस्माद् प्रतिप्राप्तम्