ताम्बूल

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्बूलम्, क्ली, (तम + “खर्जिपिञ्जादिभ्य ऊरो- लचौ ।” उणां । ४ । ९० । इति ऊलच् बुगा- गमो दीर्घश्च ।) पर्णम् । पान इति भाषा । अस्य गुणाः । कटुत्वम् । तिक्तत्वम् । उष्ण- त्वम् । मधुरत्वम् । क्षारत्वम् । कषायत्वम् । वातकृमिकफदुःखदोषनाशित्वम् । कामाग्नि- सन्दीपनत्वम् । स्त्रीसम्भाषणभूषणत्वम् । धृति- वक्त्रपाटवोत्साहकान्तिकारित्वम् । सुप्तोत्थिते भुक्ते च शस्तत्वम् । दन्तास्यदृग्गदे त्याज्यत्वम् । स्वर्गेऽपि दुर्लभत्वञ्च । इति राजवल्लभः ॥ अपि च । तीक्ष्णत्वम् । पीनसकासनाशित्वम् । रुच्यत्वम् । दाहकारित्वञ्च ॥ * ॥ कृष्णपर्णस्य गुणाः । तिक्तत्वम् । उष्णत्वम् । कषायत्वम् । दाहवक्त्रजाड्यमलधारित्वञ्च ॥ * ॥ शुभ्रपर्णस्य गुणाः । श्लेष्मवातामयनाशित्वम् । पथ्यत्वम् । रुच्यत्वम् । दीपनत्वम् । पाचनत्वञ्च ॥ * ॥ सद्यस्त्रोटितताम्बूलभक्षणगुणाः । मुखरोगजाड्य- दोषवातारोचकरक्तमलविष्टम्भकान्तिकारित्वम् ॥ त्रिरात्रत्रोटितभूयोजलयोजितताम्बूलगुणाः । उत्तमत्वम् । रुचिबलकारित्वम् । त्रिदोषार्त्ति- नाशित्वञ्च ॥ * ॥ “शिरापर्णन्तु शैथिल्यं कुर्य्यात्तस्यास्रहृद्रसः । शीर्णं त्वग्दोषदन्तस्य भक्षिते तु सितासिते ॥ अनिधाय मुखे पर्णं पूगं स्वादयते नरः । मतिभ्रंशो दरिद्रः स्यादन्ते न स्मरते हरिम् ॥” इति राजनिर्घण्टः ॥ * ॥ “पर्णमूले वसेद्ब्याधिः पर्णाग्रे पापसञ्चयः । चूर्णपर्णं हरेदायुः शिरा बुद्धिविनाशिनी ॥ नायुरग्रे विषं मूले मध्येऽलक्ष्मीर्व्यवस्थिता । तस्मादग्रञ्च मूलञ्च मध्यं पर्णस्य वर्ज्जयेत् ॥ चूर्णाधिकं हरति गन्धमथाधिपूगं रागं तथाधिकदलञ्च सुगन्धिकारि । ताम्बूलमुत्तममिदं रसनाग्रभिन्न- पर्णं निशास्वधिकखण्डितपर्णमह्नि ॥ ताम्बूलं न हितं प्रोक्तं शरीरे रूक्षदुर्ब्बले । ज्वरास्यशोषपित्तास्रमदमूर्च्छाक्षिरोगिषु ॥ ताम्बूलात्युपयोगात् स्याच्छोषः पित्तानिलास्रता । देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः ॥” इति राजवल्लभः ॥ * ॥ “विना पणं मुखे दत्त्वा गुवाकं भक्षयेद्यदि । तावद्भवति चण्डालो यावद्गङ्गां न गच्छति ॥” इति कर्म्मलोचनम् ॥ * ॥ “ताम्बूलं विधवास्त्रीणां यतिनां ब्रह्मचारिणाम् । तपस्विनाञ्च विप्रेन्द्र ! गोमांससदृशं ध्रुवम् ॥” इति ब्रह्मवैवर्त्ते ब्रह्मखण्डम् ॥ * ॥ अस्य नामानि गुणाश्च । यथा, भावप्रकाशे । “ताम्बूलवल्ली ताम्बूली नागिनी नागवल्लरी । ताम्बूलं विशदं रुच्यं तीक्ष्णोष्णं तुवरं सरम् ॥ वश्यं तिक्तकटुक्षारं रक्तपित्तकरं लघु । बल्यं श्लेष्मास्यदौर्गन्धमलवातश्रमापहम् ॥” क्रमुकम् । इति मेदिनी । ले, ९७ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्बूल¦ न॰ तम--ऊलच् वुगागमः दीर्घश्च गौ॰ ङीष् तस्याःपत्रमण्। (पान) ख्याते

१ नागवल्लीदले।

२ क्रमुके च मेदि॰।
“ताम्बूलं कटूतिक्तमुष्णमधुरं क्षारं कषायान्वितं वातघ्नंकृमिनाशनं कफहरं दुर्गन्धनिर्नाशनम्। वक्त्रस्याभरणंविशुद्धिकरणं कामाग्निसन्दीपनं ताम्बूलस्य सखे! त्रयो-दश गुणाः स्वर्गेऽपि ते दुर्लभाः” अपि चाहुः
“ताम्बूलंविशदं रुच्यं तीक्ष्णीष्णं तुवरं सरम्। रस्यं तिक्तंकटु क्षारं रक्तपित्तकरं लघु। वल्यं श्लेष्मास्यदौर्गन्ध्यमल-वातश्रमापहम्” भाव॰ प्र॰।
“अनिधाय मुखे पर्णं पूगं[Page3273-a+ 38] स्वादयते नरः। मतिभ्रंशो दरिद्रः स्यादन्ते न स्मरतेहरिम्” राजनि॰। भावप्र॰ दिनचर्य्यायामुक्तं यथा
“धूमेनापोह्य हृद्यैर्वा कषायकटुतिक्तकैः। पूगकर्पूरकस्तूरीलवङ्गसुमनःफलैः। फलैः कटुकषायैर्वा मुख-वैशद्यकारिभिः। ताम्बूलपत्रसहितैः सुगन्धैर्वाविचक्षणः। धूमेन अगुर्वादिधूमेन। अपोह्य कफंदूरीकृत्य कषायकटुतिक्तकैः फलैः कर्पूरकस्तूरीलव-ङ्गादिभिः पूगैः क्रमुकैः सुमनःफलैः जातीफलैःएलाहरीतक्यादिफलैः। रात्रौ सुप्तोत्यिते स्नाते भुक्तेवान्ते च सङ्गरे। सभायां विदुषां राज्ञां कुर्य्यात्ताम्बूलचर्वणम्। ताम्बूलमुक्तं तीक्ष्णोष्णं रोचनन्तु परंसरम्। तिक्तं क्षारोषणं कामरक्तपित्तकरं लघु। वश्यं श्लेष्मास्यदौर्गन्ध्यमलवातश्रमापहम्। मखवैशद्यसौगन्ध्यकान्तिसौष्ठवकारकम्। हनुदन्तमल-ध्वंसि जिह्वेन्द्रियविशोधनम्। मुखप्रसेकशमनं गला-मयविनाशनम्। नवं तदेव मघुरं कषायानुरसं गुरु। वलासजननं प्रायः पत्रशाकगुणं स्मृतम्। वङ्गदेशो-द्भवं पर्णं परं कटुरसं सरम्। पाचनं पित्तजनकमुष्णंकफहरं स्मृतम्। पर्णं पुराणमकटु खुल्लकन्तनु पाण्डु-रम्। विशेषाद् गुणवद्वेद्यमन्यद्धीनगुणं स्मृतम्। खदिरः कफपित्तघ्नश्चूर्णं वातबलासनुत्। संयोगतस्त्रिदोघ्नं सौमनस्यं करोति च। मुखवैशद्यसौगन्ध्य-कान्तिसौष्ठवकारकम्। प्रभाते पूगमधिकं मध्याह्नेखदिरं तथा। निशासु चूर्णमधिकं ताम्बूलं भक्षयेत्सदा। आयुरग्रे यशो मूले लक्ष्मीर्मध्ये व्यवस्थिता। तस्मादग्रं तथा मूलं मध्यं पर्णस्य वर्जयेत्। पर्णमूलेभवेद्व्याधिः पर्णाग्रे पापसम्भवः। जीर्णं पर्णं हरत्यायुःसिरा बुद्धिविनाशिनी। आद्यं विषोपमं पीतं द्वितीयंभेदि दर्जरम। तृतीयादनु पातव्य सुधातुल्य रसाय-नम्। ताम्बूलं नातिसेवेत न विरिक्तो बुभुक्षितः। देहदृक्केशदन्ताग्निश्रोत्रवर्णबलक्षयः। शोषः पित्ता-निलास्र स्यादतिताम्बूलचर्वणात्। विषमूर्च्छामदा-र्त्तानां क्षयिणां रक्तपित्तिनाम्।
“विना पर्णं मुखे दत्त्वा गुवाकं भक्षयेद्यदि। तावद्भवतिचण्डालो यावद्गङ्गां न गच्छति” कर्मलोचनम्।
“ताम्बूलं विधवास्त्रीणां यतीनां ब्रह्मचरारिणाम्। तपस्विनाञ्च विप्रेन्द्र! गोमांससदृशं ध्रुवम्” इति ब्रह्म-वै॰ व्र॰ ख॰। मार्कण्डेयः
“भूयोऽप्याचम्य कर्तव्यं[Page3273-b+ 38] ततस्ताम्बूलभक्षणम्” वशिष्ठः
“सुपूगञ्च सुपर्णञ्च सुचूर्णेनसमन्वितम्। अदत्त्वा द्विजदेवेभ्यस्ताम्बूलं वर्जयेद्बुधः”
“ताम्बूलद्वयमासनञ्च लभते यः कान्यकुब्जेश्वरात्” नैष॰
“ताम्बूलाक्तं दशनमसकृद्दर्शयन्तीह चेटी” सा॰ द॰।

२ पर्णवृक्षे स्त्री गौरा॰ ङीष्।
“ताम्बूलीनां दलैस्तत्ररचिताः पानभूमयः” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्बूल¦ nf. (-ल-ली)
1. Areca, (Areca faufel or catechu.)
2. Betel, (Piber betel,) or its pungent leaf, which together with the areca nut and catechu, and sometimes caustic lime and spices, is eaten very generally by the natives of the east. n. (-लं) The areca nut. m. (-लः) San, a plant, (Crotolaria juncea.) E. तम् to desire, affix ऊलच् and वुक् augment, the radical vowel made long.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्बूलम् [tāmbūlam], 1 The areca-nut.

The leaf of piperbetel, which together with the areca-nut, catechu, chunam, and spices is usually chewed after meals; ताम्बूलभृतगल्लो$यं भल्लं जल्पति मानुषः K. P.7; रागो न स्खलित- स्तवाधरपुटे ताम्बूलसंवर्धितः Ś. Til.7. -Comp. -अधिकारः the office of carrying the betel-box; Pt.1. -करङ्कः, -पेटिका a betel-box (Mar. पानदान, पानपुडा); आकृष्य ताम्बूलकरङ्कमध्यात्कर्पूरदानं विदधे बहुभ्यः Vikr.9.82. ˚वाह, ˚हिनी see next word. -दः, -धरः, -वाहकः a servant attached to men of rank to carry the betel-box and to provide them with ताम्बूल whenever necessary. -वल्ली the betelplant; ताम्बूलवल्लीपरिणद्धपूगाः R.6.64.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ताम्बूल m. (= Prakrit bo7la fr. ताम्रगुल)= बलW.

ताम्बूल n. betel , ( esp. ) its pungent and aromatic leaf (chewed with the areca-nut and catechu and sometimes caustic lime and spices as a carminative and antacid tonic) Hariv. 8454 and 8457 Sus3r. VarBr2S. etc.

ताम्बूल n. the areca-nut L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--offered to Hari in Payovrata. फलकम्:F1: भा. VIII. १६. ४१.फलकम्:/F Offered by the merchants of मथुरा to कृष्ण and his brother; फलकम्:F2: Ib. X. ४२. १३.फलकम्:/F used by त्रिवक्रा before she met कृष्ण; फलकम्:F3: Ib. X. ४८. 5.फलकम्:/F offered to Brahmana ladies, who were not widows, in the Devi temple just before the marriage of रुक्मिणी; फलकम्:F4: Ib. X. ५३. ४८; ६१. 6.फलकम्:/F given by कृष्ण to Brahmanas; फलकम्:F5: Ib. X. ७०. १३: ७३. २६.फलकम्:/F offered to Kucela by कृष्ण; फलकम्:F6: Ib. X. ८०. २२.फलकम्:/F offered to Hari by Indrasena; फलकम्:F7: Ib. X. ८५. ३७; XI. २७. ४३.फलकम्:/F to be offered to Tripurasundari during worship. फलकम्:F8: Br. IV. ४३. १३.फलकम्:/F

"https://sa.wiktionary.org/w/index.php?title=ताम्बूल&oldid=430194" इत्यस्माद् प्रतिप्राप्तम्