ताम्रपात्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ताम्रपात्र¦ न॰ ताम्रस्य विकारः अण् कर्म॰। ताम्रमयेपात्रे तत्र तर्पणविधिस्तर्पणशब्दे उक्तः।
“गृहीत्वौ-डुम्बरं पात्रम्” इत्यादि स्मृत्या तस्य संकल्पपात्रतोक्तातत्र भोजननिषेधो मनुनोक्तो यथा
“ताम्रपात्रे न भु-ञ्जीत भिन्नकांस्ये सलाबिले। पलाशपद्मपत्रेषु गृहीभुक्त्वैन्दवं चरेत्”। तत्र घृतेतरोद्धृतसारगव्यादिभोजन-[Page3275-b+ 38] निषेधमाह स्मृतिसागरे स्मृतिः
“नारिकेलजलं कांश्येताम्रपात्रे स्थितं मधु। गव्यञ्च ताम्रपात्रस्थं मद्य-तुल्यं घृतं विना। ताम्रपात्रधृतं मांसं यच्च गव्यं घृतेत-रत्। आमिषन्तु गवां मांसं दधि मद्यं पयो रजः। द्रव्यान्तरयुतं मांसं पयसा संयुतं दधि। पयोऽनुद्धृत-सारञ्च ताम्रपात्रे न दुष्यति” उत्तरार्द्धानुसारात्
“ततश्चसंस्कृते वह्नौ गोक्षीरेण चरुं पचेत्। अस्त्रेण क्षालितेपात्रे नवे ताम्रमयादिके” शारदाति॰ वाक्यम् अनुद्धृत-सारक्षीरविषयम उद्धृतसारस्यैव तत्र स्थितत्वे निषेधात्पानपात्रं च ताम्रपात्रं प्रशस्तं यथाह सुश्रुतः दद्यात्दाम्रमये पात्रे सुशीतं सुशृतं पयः”।
“जलपात्र तुताम्रस्य तदभावे मृदो हितम्” भावप॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ताम्रपात्र/ ताम्र--पात्र n. = -कुण्डMBh. xiii , 6026 f. Sus3r. vi , 12 , 38
ताम्रपात्र/ ताम्र--पात्र n. (used as a kind of clepsydra) Su1ryas. xiii , 23
