ताम्रयोग
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ताम्रयोग¦ पु॰ चक्रदत्तोक्ते औषधभेदे तद्विधानादि तत्रोक्तयथा
“स्थाल्यां संमर्द्य दातव्यौ माषिकौ रसगन्धकौ। नख-क्षुण्णं तदुपरि तण्डुलीयं द्विमाषिकम्। ततो नैपाल-ताम्रादि पिधाय सुकरालितम्। पांशुना पूरयेदूर्द्ध्वसर्वां स्थालीं ततोऽनलः। स्थाल्यधो नालिकां याव-द्देयस्तेन मृतस्य च। ताम्री ताम्रस्य रत्त्येकात्रिफलाचूर्णरत्तिका। त्र्यूषणस्य च रत्त्येका विड-ङ्गस्य च तन्मधु। घृतेनालोद्ध्य लेढव्यं प्रथमे दिवसेततः। रत्तिवृद्धिः प्रतिदिनं कार्य्या ताम्रादिषु त्रिषु। स्थिरा विडङ्गरत्तिस्तु यदा भेदो विवक्षितः। तदा[Page3276-a+ 38] विडङ्गन्त्वधिकं दद्याद्रत्तिद्वयं पुनः। द्वादशाहं योग-वृद्धिस्ततो ह्रासक्रमोऽप्ययम्। ग्रहणीमम्लपित्तञ्च क्षयंशूलञ्च॰ सर्वदा। ताम्रयोगो जयत्येष बलवर्णाग्निवर्द्धनः”।
