तारमाक्षिक
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तारमाक्षिक¦ न॰ तारं रूप्यमिव माक्षिकम् उपधातुभेदः। रजततुल्ये उपधातुभेदे।
“तारमाक्षिममन्यत्तु तद्भवे-द्रजतोपमम्। किञ्चिद्रजतसाहित्यात् तारमाक्षिकमी-रितम्। अनुकल्पतया तस्य ततो हीनगुणाः स्मृताः। न केवलं रूप्यगुणावर्त्तन्ते तारमाक्षिके। द्रव्यान्तरस्यसंसर्गात् सन्त्यन्येऽपि गुणा यतः। स्यात् तारमाक्षिकंस्वादु तिक्तं वृष्यं रसायनम्। चाक्षुष्य वस्तिरुक्कुष्ठ-पाण्डुमेहविषोदरम्। अर्शः शोथं क्षयं कण्डूं त्रि-दोषमपि नाशयेत्। मन्दानलत्वं बलहानिमुग्रां विष्ट-म्भितां नेत्रगदान् सकुष्ठान्। तथैव मालां व्रणपूर्विकाञ्चकरोत्यशुद्धं रजताख्यमाक्षिकम्”। शोधनन्तु।
“कर्कोटीमेषशृङ्ग्युत्थैर्द्रवैर्जम्बीरजैर्दिनम्। भावयेदातपे तीव्रेविमला शुद्ध्यति ध्रुवम्। विमला तारमाक्षिकम्। मार-णन्तु
“कुलत्थस्य कषायेण घृष्टा तैलेन वा पुटेत्। तैलेनवाऽजमूत्रेण म्रियते तारमाक्षिकम्” भावप्र॰।
Monier-Williams
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तारमाक्षिक/ तार--माक्षिक n. a kind of mineral substance Bhpr. i f.
