ताराचमन
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
ताराचमन¦ न॰ तारायाः पूजाद्यङ्गमाचमनम्” शा॰ त॰। तारादवीपजाद्यङ्गे आचमनभेदे तच्च भैरवतन्त्रे उक्तंयथा
“तारामेदेस्त्रिभिः पीत्वा मायया क्षालयेत् करम्। हुं ओष्ठौ तु द्बिरुत्मृज्य फट्कारैः क्षालयेत् करम्। आस्यं नासे दृशौ श्रात्रे नाभिवक्षः श्रिरोभुजान्। वैरोचनादिभिः स्पृष्ट्वा सर्वपापैः प्रमुच्यते। आचम्यभैरवो भूत्वा वत्सरात्तां प्रपश्यति”। ताराभेदैरिति। उग्रतारैकजटानीलसरस्वतीभेदैः। वैरोचनादयस्तु। बैरोचन, शङ्ख, पाण्डर, पद्मनाभ नामक, मामक,पाण्डव, तारकाऽसिताङ्ग, यमान्तक, विघ्नान्तक, नरा-[Page3280-b+ 38] न्तकाः, सचतुर्थीप्रणवादिनमोऽन्तकाः” कृष्णानन्दतन्त्रसा॰।
