तालीशाद्यमोदक
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तालीशाद्यमोदक¦ पु॰ चक्रदत्तोक्ते मोदकभेदे यथा
“ताली-शपत्रं मरिचं नागरं पिप्पली शुभा। यथोक्तसंभाग-वृद्ध्या त्वगेले चार्द्धभागिके। पिप्पल्यष्टगुणा चात्र प्रदेयासितशर्करा। श्वासकासारुचिहरं तर्पणं दीपनं परम्। हृत्पाण्डुग्रहणीरोगप्लीहशोषज्वरापहम्। छर्द्यतीसार-कासघ्नं मूढवातानुलोमनम्। कल्पयेद् गुडिकां चैतच्चूर्णंपक्वासितोपलाम्। गुडिका ह्यग्निसंयोगाच्चूर्णाल्लघुतरास्मृता। पैत्तिके ग्राहयन्त्येके शुभाय वंशलोचनम्”।
