सामग्री पर जाएँ

तुच्छ्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुच्छ्य¦ न॰ तुच्छ--वेदे स्वार्थे इवार्थे वा यत्।

१ तुच्छशब्दार्थे

२ तुच्छ-कल्पे च
“तम आसीत्तमसागूढमग्रेऽप्रकेतं सलिलं सर्वमाइदम्। तुच्छ्येनाभ्वपिहितं यदासीत्तपसस्तन्महिनाजायतैकम्” ऋ॰

१० ।

१२

९ ।

३ अयमर्थः। ननूक्तप्रकारेणयदि पूर्वमिदं जगन्नासीत् कथं तर्हि तस्य जन्म?जायमानस्य जनिक्रियायां कर्तृत्वेन कारकत्वात् का-रकं च कारणावान्तरविशेष इति कारकस्य सतोनियतपूर्वक्षणवर्तित्वस्यावश्यम्भावात्। अथैतद्दोषपरिजिहीर्षया जनिक्रियायाः प्रागपि तद्विद्यत इत्युच्यतेकथं तस्य जन्म? अत आह। तमसागूढमग्र अग्रेसृष्टेः, प्राक् प्रलयदशायां भूतभौतिकं सर्वं जगत्तमसा-गूढम्। यथा नैशं तमः सर्वपदार्थजातमावृणोतितद्वत् आत्मतत्त्वस्यावरकत्वान् मायापरसं ज्ञं भावरूपा-ज्ञानमत्र तम इत्युच्यते। तेन तमसा निगूढं संवृतंकारणभूतेन तेनाच्छादितं भवति। छादकात्तस्मात्तमसोनामरूपाभ्यां यदाऽविर्भवनं तदेव तस्य जन्मेत्युच्यते। एतेन कारणावस्थायामसदेव कार्य्यमुत्पद्यत इत्यसद्वादि-नोऽसत्कार्य्य वादिनो ये मन्यन्ते ते प्रत्याख्याताः। ननु-कारणे तमसि तज्जगदात्मकं कार्य्यं विद्यते चेत् कथंनासीद्रज इत्यादि निषेधः। तत्राह तभ आसीदिति। तमोभावरूपाज्ञानं मूलकारणं तद्रूपता तदात्मनाम्। यतः सर्वं जगत् प्राक् तम आसीदतो निषिध्यतइत्यर्थः। नन्वावरकत्वादावरकं तमः कर्त्तृ आवार्य्यत्वा-ज्जगत् कर्म्म। कथं तयोः कर्म्मकर्त्त्रोस्तादात्म्यम्। तत्राह अप्रकेतमिति। अप्रकेतमप्रज्ञायमानम्। अय-मर्थः। यद्यपि जगतस्तमसश्च कर्म्मकर्त्तृभावोयौक्तिको नविद्यते तथापि व्यवहारदशायामिव तस्यां दशायांनामरूपाभ्यां विस्पष्ट न ज्ञायत इति तादात्म्यवर्णनम्। अतएव मनुना स्मर्यते
“आसीदिदं तमोभूतमप्रज्ञातम-लक्षणम्। अप्रतर्क्यमनिर्देश्यं प्रसुप्तमिव सर्वतः” इति। कुतो वा न प्रज्ञायते तत्राह सलिलम्। सल--गतौ। औणादिक इलच्। इदं दृश्यमानं सर्वं जगत् सलिलंकारणेन संगतमविभागापन्नम् आसीत्। अस्तेर्लङितिपि बहुलं छन्दसीतीडभावे हल्ङ्याब्भ्य इति[Page3323-a+ 38] तिलोपे तिप्यनस्तेः पा॰ इति पर्य्युदासाद्दकाराभावः। यद्वा सलिलमिति लुप्तोपमम्। सलिलमिव! यथा क्षी-रेणाविभागापन्नं नीरं दुर्विज्ञानं तथा तमसाऽविभा-गापन्नंजगन्न शक्यं विज्ञातुमित्यर्थः। ननु विविधविचित्र॰रूपभूयसः प्रपञ्चस्य कथमतितुच्छेन तमसा क्षीरेणनीरस्येवाभिभवः। तथा तमोऽपि क्षीरवद्वलवदित्ये-वोच्यते। तर्हि दुर्बलस्य जगतः सर्गसमयेऽपि नोद्भवस-म्भव इत्यत आह तुच्छ्येनेति। आसमन्ताद्भवतीत्याभुतुच्छ्येन। छन्दसो{??}कारोपजनः। तुच्छ्येन तुच्छ-कल्पेन सदसद्विलक्षणेन भावरूपाज्ञानेनापिहितं छादि-तमासीत्” भाष्यम्।

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुच्छ्य [tucchya], a. Ved. Void, empty; तुछ्यान् कामान् करते सिष्विदानः Rv.5.42.1.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुच्छ्य mfn. empty , vain RV. v , 42

तुच्छ्य n. emptiness , x , 129 .

"https://sa.wiktionary.org/w/index.php?title=तुच्छ्य&oldid=403402" इत्यस्माद् प्रतिप्राप्तम्