तुला

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुला, स्त्री, (तोल्यतेऽनया । तुल उन्माने भिदा- द्यङ् । अतुलोपमाभ्यामिति निर्द्देशात् गुणा- भावः ।) सादृश्यम् । (यथा, रघुः । ८ । १५ । “नभसा निभृतेन्दूना तुला- मुदितार्केण समारुरोह तत् ॥”) मानम् । (यथा, पञ्चतन्त्रे । २ । ८४ । “सकृदपि दृष्ट्वा पुरुषं विबुधा जानन्ति सारतां तस्य । हस्ततुलयापि निपुणाः पलपरिमाणं विजानन्ति ॥”) गृहाणां दारुबन्धाय पीठिका । पलशतम् । (यथा, अमरकोषे । २ । ९ । ८७ । “तुला स्त्रियां पलशतं भारः स्यात् विंशति- स्तुला ॥”) भाण्डम् । इति मेदिनी । ले, २५ ॥ मेषादि- द्वादशराश्यन्तर्गतसप्तमराशिः । तत्पर्य्यायः । यूकः २ युक् ३ धटः ४ तौली ५ तुलाभृत् ६ । इति ज्योतिषम् ॥ सा चित्राशेषपादद्वयस्वाती- समुदाययुक्तविशाखाप्रथमपादत्रयेण भवति । तदधिष्ठातृदेवता तुलाधारिपुरुषः । अस्याः शिरस उदयः नानावर्ण उष्णस्वभावः । सा पश्चिमदिकस्वामिनी वायुराशिः स्निग्धा चिक्कणा निःशब्दा वनचारिणी अल्पसन्ताना अल्पस्त्रीसङ्गा शूद्रवर्णा समानाङ्गा च । तत्र तदेनं संशयादस्माद्धर्म्मतस्त्रातुमर्हसि ॥” तुलाधारकञ्च नियमेदनेन । “ब्रह्मध्ना ये स्मृता लोका ये लोकाः कूटसाक्षिणः । तुलाधारस्य ते लोकास्तुलां धारयतो मृषा ॥” शोध्यस्तु तुलामभिमन्त्रयेदनेन । त्वं तुले ! सत्यधामासि पुरा देवैर्विनिर्म्मिता । तत् सत्यं वद कल्याणि ! संशयान्मां विमोचय ॥ यद्यस्मिन् पापकृन्मातस्ततो मां त्वमधो नय । शुद्धश्चेद्गमयोर्द्ध्वं मां सर्व्वं वेत्सि कृताकृतम् ॥ ततः प्राड्विवाकः पूर्ब्बाननं तं पूर्ब्बवद्धटमारो- पयेत् । आरोपितं मा कान्ते पक्षस्यान्ते पर्य्या- काशे देशे स्वाप्सीः कान्तं वक्त्रं वृत्तं पूर्णं चन्द्रं मत्वा रात्रौ चेत् । क्षुत्क्षामः प्राटंश्चेतश्चेतो राहुः क्रूरः प्राद्यात्तस्माद्ध्वान्ते हर्म्मस्यान्ते शय्यै- कान्ते कर्त्तव्या इत्यस्य पञ्चधा पाठकालस्तत्र शुद्धाशुद्धज्ञानाय स्थापयेत् । ततः प्रतिमान- द्रव्यादूर्द्ध्वावस्थाने शुद्धः । अधोऽवस्थाने त्वशुद्धः । समावस्थाने अल्पदोषः । सन्देहे पुनःपरीक्षा देया । कक्षकीलकशिक्यपादाक्षादीनां दृष्ट- कारणव्यतिरेकेण छेदे भङ्गे वाप्यशुद्धिमादि- शेत् । ततः पुरोहिताचार्य्यादीन् दक्षिणादिभि- स्तोषयेत् ।” इति दिव्यतत्त्वम् ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुला स्त्री।

पलशतम्

समानार्थक:तुला

2।9।87।1।1

तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः। आचितो दश भाराः स्युः शाकटो भार आचितः॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुला¦ स्त्री तुल--भिदा॰ अङ्।

१ सादृश्ये

२ माने च गृहाणां

३ दारुबन्धनार्थपीठिकायां

४ पलशतमाने

५ भाण्डे चमेदि॰। राशिचक्रस्य द्वादशधा विमक्तस्य

६ सप्तमे राशौस च

३६

० अंशात्मकराशिचक्रस्य

१८

१ अंशावधि

२१

० पर्य्यन्तः चित्राशेषार्द्ध स्वातिविशाखान्तिमपादत्रयात्मकः। अस्याधिष्ठाता तुलाधरः पुरुषः। अस्य योगतारादिकम्अश्लेषाशब्दे उक्तमृक्षशब्दे च विशेष उक्तः।
“तौली-ना कथितस्तुलाधटधरः” जातकपद्धतिः।
“पुमांश्चर-श्चित्रसमोदयोमतः प्रत्यक् मरुत् स्निग्धरवोऽथ वन्यः। स्वल्पप्रजासङ्गमशूद्र उग्रस्तुला द्युपीर्य्यो द्विपदः समानः” जातकपद्धत्युक्तस्वभावः। वादिप्रतिवादिनोर्लौकिकप्रमा-णाभावे दिव्यपरीक्षया अर्थनिर्णये कर्त्तव्ये धटापर-नामके

७ परीक्षाभेदे। सा च परीक्षा दिव्यशब्दोक्तसा-मान्यविधिपूर्वकं सर्वं कृत्वा कर्त्तव्या। तद्विधिश्च वीर-मित्रोदये दर्शितो यथापितामहः
“विशालामुच्छितां शुभ्रां धटशालान्तुकारयेत्। यत्रस्थो नोपहन्येत श्वभिश्चाण्डालवायसैः। कपाटवीजसंयुक्तां परिचारकरक्षिताम्। पानीयादिसमायुक्तामशून्यां कारयेन्नृपः” इति। वीजानि यव-ब्रीह्यादीनि। धटार्थानि काष्ठानि नारद आह
“खादिरं कारयेत्तत्र निर्व्रणं शुष्कवर्जितम्। शांशपन्तद-भावे वा सालं वा कोटरैर्विना।
“अर्जुनन्तिन्दुकीसारन्तिणिसो रक्तचन्दनम्। एवंविधानि काष्ठानिधटार्थं परिकल्पयेत्,। अर्जुनस्तिलकः शाकस्तिणिसोरक्तचन्दनम्” इति। माधवीये पाठः। शांशपमितिशिंशपावृक्षसम्बन्धि।
“देविकाशिंशपेति” पाणिनिस्म-रणादिकारस्याकारः। एवंविधानीत्यन्यस्याप्योदुम्बरा-देर्यज्ञियस्य काष्ठस्य ससारस्य ग्रहणम्”। अतएवपितामहः
“छित्त्वा तु यज्ञियं काष्ठं यूपवन्मन्त्रपूर्वकम्। प्रणम्य लोकपालेभ्यस्तुला कार्य्या मनी-षिभिः। मन्त्रः सौम्यी वानस्पत्यः छेदने जप्य एवचेति”। यूपवन्मन्त्रपूर्वकमित्यनेन ओं ओषधे त्रायस्वैन-मित्यादिच्छेदनमन्त्रप्रयोगादिकमुक्तम्। वानस्पत्यः
“वन-स्पते शतवलशोविरोहेति” मन्त्रः। छेदने कृते इतिशेषः। वानस्पत्यच्छेदनानन्तरं प्रयोगे यूपवदित्यतिदेशा-[Page3331-b+ 38] त्सिद्धेऽपि पुनर्विधानम् औपदेशिकस्य सोमदैवत्येनातिदेशिकस्य तस्य बाधनिवृत्त्यर्थम्। अत्र जप्य एव चेतिचशब्दस्य वानस्पत्येत्यनेनान्वयात् तस्य च समुच्चयद्योत-कत्वात्समुच्चय इति केचित् सौम्यवानस्पत्ययोरेकार्थ-त्वात्।
“तुल्यार्थास्तु विकल्पेरन्नित्यनेन
“माषेणेव व्रीहियवादिभ्यः” इत्यपरे। पितामहः
“प्राङ्मुखो निश्चलःकार्य्यः शुचौ देशे धटः सदा। इन्द्रस्थाने सभायां वाधर्मस्थाने चतुष्पथे” इति। धटनिर्माणप्रकारन्तत्प्रमाण-ञ्चाह पितामहः,
“चतुर्हस्ता तुला कार्य्या पादौ कार्य्यौतथाविधौ। अन्तरन्तु तयोर्हस्तौ भवेदध्यर्द्धमेवचेति”। पादौ तुलाधारकाक्षनामककाष्ठधारणाख्यौस्तम्भौ तथाविधौ चतुर्हस्तौ। अन्तरं मध्यम्। अध्यर्द्धंसार्धहस्तद्वयम्। अक्षकाष्ठस्य प्रमाणम्पादस्तम्भमध्य-प्रमाणाभिधानेनैव सूचितमिति न पृथगुपन्यस्तम्। अन्तरालप्रमाणपर्य्यालोचनया ततः किञ्चिदधिकमक्षकाष्ठंकर्त्तव्यम्। पादस्तम्भयोर्मस्तकप्रदेशाद्यथा बहिर्ननिःसरति तथा अक्षकाष्ठङ्कार्य्यमिति स्मृतिचन्द्रिका-याम्। अत्र निखातभागपरित्यागेन पादस्तम्भयोश्चतु-र्हस्तत्वाभिधानं ज्ञेयम्। अतएव पितामहः
“हस्तद्वयंनिखेयन्तु प्रोक्तं मुण्डकयोर्द्वयोः। षढस्तन्तु तयोःप्रोक्तं प्रमाणं परिमाणतः” इति मुण्डकौ पादस्तम्भौ। हस्तप्रमाणन्दर्शितं कालिकापुराणे
“यवानान्तण्डुलै-रेकमङ्गुलञ्चाष्टभिर्भवेत्। अदीर्घयोजितैर्हस्तश्चतुर्वि श-तिरङ्गलैः”। इति स्मृत्यन्तरेऽपि
“तिर्यग्यवोदराण्यष्टाऊर्द्ध्वांशा व्रीहयस्त्रयः। प्रमाणमङ्गुलस्योक्तं वित-स्तिर्द्वादशाङ्गलः”। शारदातिलके
“चतुर्विंशत्यङ्गुलाद्यंहस्तन्तन्त्रविदो विदुः। यवानामष्टभिः कॢप्तं माना-ङ्गुलमितीरितमिति”। हस्तो वितस्तिद्वितयं चतुर्विं-शत्यङ्गुलो हस्त इत्यर्थः। यवानां यवतण्डुलानामित्यर्थः।
“यवानान्तण्डुलैरिति” स्मरणात्। तुलाया विशेषान्तरमाहपितामहः
“चतुरस्रा तुला कार्य्या दृढा ऋज्वी तथैवच। कटकानि च देयानि त्रिषु स्थानेषु यत्नतः” इति। कटकानि लोहमयानि वलयानि। त्रिषु स्थानेषु अन्त्य-योर्मध्ये। कटकग्रहणं लोहकीलादीनामुपयुक्ताना-मुपलक्षणम्। नारदोऽपि
“ऋज्वी धटतुला कार्य्याखादिरी तैन्दुकी तथा। चतुरस्रा त्रिभिः स्थानैर्धटक-र्कटकादिभिरिति”। धटो धटमध्यम्। कर्कटकौ अन्त्यौ। पादस्तम्भादीनां स्थूलता तु विशेषानभिधानात् यावति[Page3332-a+ 38] स्थैल्ये दाद्यंम्भवति तावत्येव कार्य्या। शिष्टाचारा-द्विशेषो ज्ञेयः। पादस्तम्भावुदग्दक्षिणसंस्थानौ कृत्वातुला प्राग्भारा कार्य्या।
“पश्चिमे तोलयेत्कर्तॄन् अन्य-स्मिन् मृत्तिकां शुभामिति” पितामहस्मरणात्। पूर्व-पश्चिमसस्थानौ कृत्वोदग्मारा वा कार्य्या।
“धारयेदुत्तरेपार्श्वे पुरुषं दक्षिणे शिलामिति” मारदस्मरणात्। धटाङ्गत्वेन तोरणादिकं कार्य्यमित्याह पितामहः
“तोरणे तु तथा कार्य्ये पार्श्वयोरुभयोरपि। धटादुच्चतरेस्यातान्नित्यन्दशभिरङ्गुलैः। अवलम्बौ तु कर्त्तव्यौ तौर-णाभ्यामधोमुखौ। मृण्मयौ सूत्रसम्बद्धौ धटमस्तक-चुम्बिनाविति”। धटारोहणमाह नारदः
“शिक्यद्वयंसमासज्य धटकर्कटयोर्दृढम्। एकशिक्ये तु पुरुषमन्यत्रतोलयेच्छिलाम्”।
“धारयेदुत्तरे पार्श्वे पुरुषन्दक्षिणेशिलाम्। पिटकम्पूरयेत्तस्मिन्निष्टकापांशुलोष्टकैरिति”। इष्टकाभिर्ग्रावभिः पांशुभिर्लोष्टैर्वेत्यर्थः। माषराशि-भिरपि पेटकम्पूरयेत्।
“माषराशिमथाषिवेति” स्मृत्य-न्तरवचनात्। पितामहोऽपि”
“शिक्यद्वयं समासज्ययार्श्वयोरुभयोरपि। प्रागग्रान् कल्पयेद्दर्भांस्तत्र विप्रःससाहितः। षश्चिमे तोलयेत्कर्त्तॄनन्यस्मिन्मृत्तिकांशुभाम्। इष्टकाभस्मपाषाणकपालास्थिविवजितामिति”। अत्र इष्टकापाषाणयोर्वर्ज्यत्वोक्तिः समुच्चयनिराकर-णार्था नतु विकल्पनिराकरणार्था पूर्वोदाहृतनारद-वचते तयोरपि विधानात्।
“एतेन मृत्तिकापाषाणादीनांसम्भूय तोलनकर्तृत्वमिति मतमपास्तम्। मृत्तिकाशिलेष्ट-कादोनामेकार्थत्वात्
“तुल्यार्थास्तु विकल्पेरन्निति” न्यायेनविकल्प इति मिताक्षरायाम्। विष्णुरपि
“अत्रैकशिक्येपुरुषमारोपयेत् द्वितीये प्रतिमानं शिलादीति”। समतानिरीक्षणार्थं राज्ञा तद्विदो नियोक्तव्याः। तथाच पितामहः
“परीक्षका नियोक्तव्यास्तुलामान-विशारदाः। बणिजो हेमकाराश्च कांस्यकारास्तथैव-चेति”। नियुक्ताश्च निरीक्षेरन्नित्याह बारदः।
“सुव-र्ण्णकारा बणिजः कुशलाः कांस्यकारकाः। तान्तुलाम-न्ववेक्षेरन् तुलाधारणकोविदाः इति”। निरीक्षिणं प्रत्याहपितामहः
“कार्य्यः परीक्षकैर्नित्यमवलम्व्य समोधटः। उदकञ्च प्रदातव्यं धटस्योपरि पण्डितैः। यस्मिन्न प्लवते तोयं स विज्ञेयः समो घट” इति। अबलम्बसमः तोरणयोर्लम्बमानौ यौ मृत्तोयावबलम्बौतयोः समः। नारदोऽपि
“प्रथमारोहणे ग्राह्यं[Page3332-b+ 38] प्रमाणन्निपुणैः सह। तुलाशिरोभ्यान्तुल्यं तु तोरणन्य-स्तलक्षणमिति”। तोलनानन्तरं कर्त्तव्यम्पितामहआह
“तोलयित्वा नरं पूर्वं पश्चात्तमवतार्य्य तु। धटं तु कारयेन्नित्यं पताकाध्वजशोभितम्”। तत आवा-हयेद्देवान्विधिनानेन मन्त्रवित्। बादित्रतूर्य्यनिर्घोषै-र्गन्धमाल्यानुलेपनैः। प्राङ्मुखः प्राञ्जलिर्भूत्वा प्राड्-विवेकस्ततोवदेत्” इति। विवादानुरूपं प्रश्नम्पृच्छ-तोति प्राट् तद्विवेचयतोति विवेकः प्राट् चासौ विवेकश्चप्राड्विवेकः। ततोऽभियुक्तं तोलयित्वाऽवतार्य्यधर्म्मावाहनादारभ्याभियुक्तशिरसि पत्रबन्धनान्तं साधा-रणविधिं कुर्य्यात्। धटपूजायाङ्गन्धादिविशेषन्नारदआह
“रक्तैर्गन्धैश्च माल्यैश्च दध्यपूपाक्षतादिभिः। अर्चयेत्तु धटं पूर्वं ततः शिष्टांस्तु पूजयेदिति”। शिष्टानवशिष्टानिन्द्रादीन्। पत्रबन्धनानन्तरं मन्त्रयेत् प्राङ्गि-वेक इत्याह पितामहः
“धटमामन्त्रयेच्चैव विधिनानेनशास्त्रवित्”। विधिना मन्त्रेण शास्त्रवित्प्राड्विवैकः। मन्त्रश्च तेनैव दर्शितः”
“त्वं धट! ब्रह्मणा सृष्टः परी-क्षार्थं दुरात्मनाम्। धकाराद्धर्ममूर्त्तिस्त्वण्टकारात्कुटिलं नरम्। धृतो धारयसे यस्माद्धटस्तेनाभिधी-यमे। त्वं वेत्सि सर्वभूतानां षाषानि सुकृतानि च। त्वमेव देव! जानीषे न विदुर्य्यानि मानवाः। व्यवहा-राभिशस्तोऽयं मानुषः शुद्धिनिच्छतीति”। शोध्यस्या-भिमन्त्रणञ्चाह याज्ञवल्क्यः
“तुलाधारणविद्वद्भि-रभियुक्तस्तुलाश्रितः। प्रतिमानसमीभूतो रेखां कृत्वा-ऽवधारितः। त्वन्तुले! सत्थधामासि पुरा देवैर्विनिर्भिता। तत्सत्यं वद कल्याणि! संशयान्मां विमोचय। यद्यस्मिपापकृन्मात! स्ततो मां त्वमधो नय। शुद्धश्चेद्गमयो-र्द्ध्वम्मां तुलामित्यभिमन्त्रयेदिति”। तुलाश्रितः तुला-मारूढः। प्रतिमानसमोभूतः प्रतिमानेन मृदादिनासमीकृतः। रेखां कृत्वावतारणे साम्यचिह्नं कृत्वाअभिमन्त्रणमेवावतारणानन्तरं कार्य्यम् अवतारित इतिक्तदर्शनात्ततः प्राड्विवेकः तुलाधारकं शपथैर्नियम्यशिरोगतपत्रकं पुनर्धटमारोपयेत्। अतएव नारदः
“समयैः परिगृह्याथ पुनरारोषयेन्नरम्। निर्वाते वृष्टि-रहिते शिरस्यारोप्य पत्रकमिति”। समयैः शपथैः परि-गृह्य नियम्य। ते च विष्णुना दर्शिताः।
“ब्रह्मघ्नोये स्मृता लोकाः ये लोकाः कूटसाक्षिणः। तुलाधारस्यते लोकास्वलान्धारयतो मृषेति” पुनरारोहणकायेऽभि-[Page3333-a+ 38] मन्त्रणमाह नारदः
“त्वं वेत्सि सर्वभूतानां पापानिसुकृतानि च। त्वमेव देवि! जानीषे न विदुर्यानि मा-नवाः। व्यवहाराभिशस्तोऽयं मानवस्तोल्यते त्वयि। तदेनं संशयारूढं धर्मतस्त्रातुमर्हसि। देवासुरमनुष्याणांसत्ये त्वमभिषिच्यसे। सत्यसन्धोऽसि भगवन्! शुभाशुभ-विभावने। आदित्यचन्द्रावनिलोऽनलश्च द्यौर्भूमिरापोहृदयं यमश्च। अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्चजानाति नरस्य वृत्तमिति”। मन्त्रोच्चारणानन्तरकर्त्तव्यंपितामह आह
“ज्योतिर्विद्ब्राह्मणश्रेष्ठः कुर्य्यात्काल-परीक्षणम्। विनाड्यः पञ्च विज्ञेयाः परीक्षाकालकोवि-दैः। साक्षिणो ब्राह्मणाः श्रेष्ठाः यथादृष्टार्थवादिनः। ज्ञानिनः शुचयोऽलुब्धा नियोक्तव्या नृषेण तु। शंसन्तिसाक्षिणः श्रेष्ठाः शुद्ध्यशुद्धी नृपे तदा” इति। ( कानि पुनर्जयपराजयचिह्नानीत्यपेक्षायामाह नारदः
“तुलितो यदि वर्द्धेत विशुद्धः स्यान्न संशयः। समो वाहीयमानो वा न विशुद्धो भवेन्नरः” इति वर्द्धेत उपरिगच्छेत्। हीयमानः अधो गच्छेत्। यत्पुनरुक्तंपितामहेन
“तुलितो यदि वर्द्धेत शुद्धो भवति धर्मतः। हीयमानो न शुद्धः स्यादेकेषान्तु समोऽशुचिः। अल्प-पापः समो ज्ञेयो बहुपापस्तु हीयते” इति। अल्पत्वंष्यभिचारे समालिङ्गनादिना” चौर्य्ये तद्देशगमनादिनातत्र एकेषामिति पूजार्थं न तु स्वमते समस्य शुचित्वद्यो-तनार्थम् अल्पपापिनोऽप्यशुचित्वात्। तेन हीयमान-समयोर्व कश्चिद्विशैषः। दण्डप्रायश्चित्ते पापविशेषस्तयो-र्दोषानुसारित्वात्। यत्तु कैश्चिदेकेषां तु समोऽशुचिरितिवचनम्।
“अल्पपापः समो ज्ञेयः” इति वचनं साम्ये संशय-परमेवेत्युक्तन्तत्क्लिष्टकल्पनया वाक्यानार्जवन्तैरुपेक्षणी-यम्। यत्तूक्तम्, वृहस्पतिना
“धटेऽभियुक्तस्तुलितोहीनश्चेद्धानिमाप्नुयात्। तत्समस्तु पुनस्तौल्यो वर्द्धितोविजयी भवेदिति” अयमर्थः पुनर्देवतावाहनाद्यसहितंसर्वं कर्म चिघायोत्तोलनीय इति समस्याशुचित्वनिश्चयोन प्रथमतोलनपर्य्याये कार्य्यः। किन्तु पुनस्तौल्यमानस्यसमतैव यदि भवति तदा अशुद्धिरवधारणीयेत्यर्थः इतिस्मृतिचन्द्रिकायाम्। यत्तु कैश्चित्तस्मिन्नैव प्रयोगे तोलन-सुक्तं तन्मन्दं प्रधानावृत्तावङ्गावृत्तिरिति न्यायेन तोलनस्यफलसम्बन्धेन प्रधानत्वात् तदावृत्तौ देवतावाहनाद्यङ्गाना-मप्यावृत्तेरेवोचितत्वात्। शिक्यादिच्छेदेऽपि पुनः समीकृत्यतोलनीय इत्याह कात्यायतः
“शिक्यच्छेदे तुलाभङ्गे[Page3333-b+ 38] तथा चापि गुणस्य वा। शुद्धेस्तु संशये चैनं परीक्षेतपुनर्नरमिति” शुद्धिसंशयकारीण्याह नारदः
“तुला-शिरोभ्यामुद्भ्रान्तं विचलं न्यस्तलक्षणम्। यदा वायुप्रणु-न्नंवा तदा नैकतरं वदेत्” इति। अयमर्थः। यदातुलान्तौ तिर्यक्चलितौ यदा च समताज्ञानार्थन्यस्तंचिह्नमपैति यदा च वायुना प्रेरिता तुला ऊर्द्ध्वमधश्चकम्पते तदा जयं पराजयं च न वदेदिति। व्यासोऽपि
“कक्षच्छेदे तुलाभङ्गे धटकर्कटयोस्तथा। रज्वुच्छेदेऽक्ष-भङ्गे वा दद्याच्छुद्धिं पुनर्नृपः” इति। कक्षं शिक्यतलंकर्कटौ तुलोपान्तस्थौ शिक्याधारावीषद्वक्रौ कर्कटशृङ्ग-सन्निभौ लौहकीलकौ। अक्षः पादस्तम्भयोरुपरिनिहित-स्तुलाधारपट्ट इति मिताक्षरा। दार्ढ्यप्रयोजकः की-लक इति हलायुधः। यत्तु वृहस्पतिवचनम्
“कक्षच्छेदेतुलाभङ्गे धटकर्कटयोस्तथा। रज्वुच्छेदेऽक्षभङ्गे चतथैवाशुद्धिमाप्नुयादिति” तदाकस्मिककक्षच्छेदादिविष-यम्। कात्यायनवचनन्तु दृश्यमानकारणकशिक्यच्छेदादि-विषयमिति विज्ञानेश्वराचार्य्यादयः” वीरमि॰। तुलापु-रुपाङ्गतुला तु हेमाद्रौ दा॰ खण्डे दृश्या। मत्कृतकृततुलादानादिपद्धतौ च विस्तरेण दृश्या।

८ तोलने मिता॰।
“तुलाः स्त्रियां पलशतं भारः स्याद्विं-शतिस्तुला इत्यमरोक्तेः पलशतमानं तुला। तत्र सादृश्ये
“तुलां यदा रोहति दन्तवाससा,” कुमा॰
“कामया-नसमस्थया तुलाम्” रघुः। तुलोपमाशब्दयोगे षष्ठ्येवसाधु न तु तृतीया
“अतुलोपमाभ्याम्” पा॰ तृतीयाविधानेतयोः पर्य्युदासात् तृतीयाप्रयोगस्तु सहार्थशब्दाध्याहारेणतद्योगे इति मल्लि॰। तुलाराशौ।
“कन्यार्के च तुलार्केच पितॄणां श्राद्धमिष्यते” स्मृतिः
“तुलायां लोलया सह” ति॰ त॰।
“सहझषस्तुलया” ज्यो॰ त॰। तोलनदण्डात्मके माने
“अथ स दक्षिणादूरोरुकृत्य स्वमांसपेशीं तुलया धारयन्गुरुतर एव कपोत आसीत्” भा॰ व॰

१९

६ अ॰।
“तुला-मानं प्रतीमानं सर्वञ्च स्यात् सुलक्षितम्। षट्सु षट्सुच मासेषु पुनरेव परीक्षयेत्” मनुः
“तुलामानं सुवर्णादीनांपरिच्छेदार्थं यत् क्रियते प्रतीमानं प्रस्थद्रोणादितत्सर्वं स्वनिरूपितं यथा स्यात् षट्सु षट्सु मासेषु गतेषुपुनस्तत्सर्वं सभ्यपुरुषैर्नृपतिः परीक्षयेत्” कुल्लू॰
“आ-षाढ्यां तुलया वीजतोलने भाविशस्यहानिवृद्धिज्ञापनम्वृ॰ स॰

२६ अ॰ उक्तं तत्र अधिवासनाङ्गतुलानिर्मा-णप्रकारस्तत्रैवोक्तो यथा[Page3334-a+ 38](
“आषाढ्यां समतुलिताधिवासितानाम् अन्येद्युर्यद-धिकतामुपैति वीजम्। तद्वृद्धिर्भवति न जायते यदूनंमन्त्रोऽस्मिन् भवति तुलाभिमन्त्रणाय। स्तोतव्या मन्त्र-योगेन सत्या देवी सरस्वती। दर्शयिष्यसि यत्सत्यं सत्येसत्यव्रता ह्यसि। येन सत्येन चन्द्रार्कौ ग्रहा ज्योतिर्ग-णास्तथा। उत्तिष्ठन्तीह पूर्वेण पश्चादस्तं व्रजन्ति च। यत्सत्यं सर्ववेदेषु यत्सत्यं ब्रह्मवादिषु। यत्सत्यं त्रिषु लो-केषु तत्सत्यमिह दृश्यताम्। ब्रह्मणो दुहिता चासि त्वमा-दित्येति कीर्तिता। काश्यपी गोत्रतश्चैव नामतो वि-श्रुता तुला। क्षौमं चतुःसूत्रकसन्निबद्धं षडङ्गुलं शिक्य-कवस्त्रमस्याः। सूत्रप्रमाणं च दशाङ्गुलानि षडेय कक्षो-भयशिक्यमध्ये। याम्ये शिक्ये काञ्चनं सन्निवेश्यंशेषद्रव्याण्युत्तरेऽम्बूनि चैयम्। तोयैः कौप्यैः स्यन्दिभिःसारसैश्च वृष्टिहीना मध्यमा चोत्तमा च। दन्तैर्नागागोहयाद्याश्च लोम्ना हेम्ना भूपाः सिक्थकेन द्विजाद्याः। तद्वद्देशा वर्षमाशा दिशश्च शेषद्रव्याण्यात्मरूपस्थितानि। हैमी प्रधाना रजतेन मध्या तयोरलाभे खदिरेण कार्या। वितः पुमान् येन शरेण सा वा तुला प्रमाणेन भवेद्वि-तस्तिः। हीनस्य नाशोऽभ्यधिकस्य वृद्धिस्तुल्येन तुल्यंतुलितं तुलायाम्। एतत्तुलाकोशरहस्यमुक्तं प्राजेशयोगेऽपि नरो विदध्यात्”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुला¦ f. (-ला)
1. Measure by weight.
2. A measure or weight of gold and silver, 100 Palas, or about 145 ounces troy.
3. Any balance, es- pecially a fine balance, goldsmith's or assay scales.
4. The sign of the zodiac, Libra.
5. Resemblance, likeness, equality, similarity.
6. A vessel.
7. Sloping beams or timbers in the roof of a house. E. तुल् to weigh or to resemble, affix अङ्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुला [tulā], [तुल्-भिदा˚ अङ्]

A balance; तस्मात्ते$द्य प्रदास्यामि स्वमांसं तुलया धृतम् Mb.3.131.25; the beam of a balance; तुलया धृ to hold in a balance, to weigh, consider equal; अश्वमेधसहस्राणि सत्यं च तुलया धृतम् H.4.131. v. l.

A measure, weight.

Weighing.

Resemblance, likeness, equality, similarity (with gen., instr. or in comp.); किं धूर्जटेरिव तुलामुपयाति संख्ये Ve.3.8; तुलां यदारोहति दन्तवाससा Ku.5.34; R.8.15; सद्यः परस्परतुलामधिरोहतां द्वे R.5.68; 19.8,5.

Libra, the seventh sign of the zodiac; जयति तुलामधिरूढो भास्वानपि जलदपटलानि Pt.1.33.

A sloping beam or timber in the roof of a house.

A measure of gold or silver equal to 1 palas.

A kind of beam in the roof of a house (Mar. तुळई); Bṛi. S.53.3. -Comp. -अधिरोहणम् resembling; नवदिवाकरातपस्पृष्टपङ्कजतुलाधि- रोहणम् R.19.8. -अनुमानम् like inference, analogy.-कूटः a false weight. -कोटिः, -टीः f.

an ornament (an anklet or नूपुर) worn on the feet by women; cf. तुलाकोटिस्तु मञ्जीरे Nm.; लीलाचलत्स्त्रीचरणारुणोत्पलस्खलत्तुलाकोटि- निनादकोमलः Śi.12.44.

a hundred millions (अर्बुद).

the end of the beam.

कोशः, कोषः ordeal by weighing, weighing on a balance; हीनस्य नाशो$भ्यधिकस्य वृद्धिस्तुल्येन तुल्यं तुलितं तुलायाम् । एतत्तुलाकोशरहस्यमुक्तम्... Bṛi. S.26.1.

a place where a balance is kept. -गुडः a kind of ball (used as missile); Mb.3. -दानम् the gift to a Brāhmaṇa. of as much gold or silver as equals the weight of one's body.

घटः the scale of a balance.

an oar.

धरः a trader, merchant.

the sign Libra of the zodiac.

The sun; तुला- धरस्तु वणिजि श्लक्ष्णराशौ दिवाकरे Nm. -धारः a dealer, trader, or merchant.

the string of a balance.

the beam.

the sign Libra of the zodiac. -धारणम् weighing; तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः Y.2.1.-परीक्षा ordeal by the balance. -पुरुषः, भारः gold, jewels or other valuable things equal to a man's weight (given to a Brāhmaṇa as a gift); cf. तुलादान.-प्रग्रहः, -प्रग्राहः the string or beam of a balance.-मानम्, -यष्टिः f.

the beam of a balance; स्तोकेनोन्नति- मायाति स्तोकेनायात्यधोगतिम् । अहो सुसदृशी चेष्टा तुलायष्टेः खलस्य च ॥ Pt.1.15.

(मानम्) weights and measures; Kau. A.2. -बीजम् the berry of the Guñjā plant (used as a weight). -सूत्रम् the string of a balance.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तुला f. a balance , weight VS. xxx S3Br. xi Mn. etc. ( लया धृor लांwith Caus. of अधिरुह्, " to hold in or put on a balance , weigh , compare " ; लांwith Caus. of अधि-रुह्, " to risk " Pan5cat. i , 16 , 9 ; लाम् अधि-or आ-or सम्-आ-रुह्, " to be in a balance " , be equal with [instr.] ; the balance as an ordeal Ya1jn5. ii Mr2icch. ix , 43 )

तुला f. equal measure , equality , resemblance Ragh. etc. ( लाम् इor गम्or आ-याor आ-लम्ब्or धा, " to resemble any one or anything " [instr. or in comp. ] ; लां न भृ, " to have no equal " Prasannar. i , 37 ; लांwith Pass. of नी, " to become equal to " [gen.])

तुला f. = लPan5cat. i , 14 , 14 VarBr2. etc.

तुला f. N. of a measure (= 100 पलs) MBh. iii , xiv VarBr2S. Sus3r. Asht2a7n3g. S3a1rn3gS. i , 31

तुला f. a kind of beam in the roof of a house VarBr2S. liii , 30.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Tulā, ‘scales,’ is mentioned in the Vājasaneyi Saṃhitā.[१] The Śatapatha Brāhmaṇa[२] also speaks of the balance in connexion with the weighing of a man's good and evil deeds in the next and in this world. This differs very considerably from the later balance[३] ordeal, in which a man was weighed twice, and was pronounced guilty or innocent according as, on the second occasion, he was more or less heavy than on the first. It is not possible to read the later practice into the earlier.[४]

  1. xxx. 17.
  2. xi. 2, 7, 33.
  3. Jolly, Recht und Sitte, 145.
  4. Weber, Indische Streifen, 1, 21;
    2, 363, quotes Schlagintweit as giving this passage as an example of the balance ordeal. Cf. Eggeling, Sacred Books of the East, 44, 45, n. 4.
"https://sa.wiktionary.org/w/index.php?title=तुला&oldid=500012" इत्यस्माद् प्रतिप्राप्तम्