तृतीया

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीया, स्त्री, (त्रयाणां पूरणी । त्रि + “त्रेः सम्प्रसारणञ्च ।” ५ । २ । ५५ । इति तीयः सम्प्रसारणञ्च । ततष्टाप् ।) तिथिविशेषः । सा चन्द्रमण्डलस्य तृतीयकलाक्रियारूपा तत्- क्रियोपलक्षितः कालो वा । इति तिथ्यादि- तत्त्वम् ॥ अस्यां जातस्य फलं यथा, -- “सकलगुणगभीरो भूमिपालानुरागी पवनगरविगाही सर्व्वलोकोपकारी । परविषयनिवासी कौतुकी सत्यवादी भवति निखिलविद्यो यस्तृतीयाप्रसूतः ॥” इति कोष्ठीप्रदीपः ॥ वा वैशाखस्य शुक्ला अक्षयतृतीयां । यथा, स्मृतिः । “वैशाखे मासि राजेन्द्र ! शुक्लपचे तृतीयिका । अक्षया सा तिथिः प्रोक्ता कृत्तिकारोहिणी- युता ॥ तस्या दानादिकं पुण्यं अक्षयं समुदाहृतम् ॥” भविष्ये । या शुक्ला कुरुशार्द्दूल ! वैशाखे मासि वै तिथिः । तृतीया साक्षया लोके गीर्व्वाणैरभिवन्दिता ॥ योऽस्यां ददाति करकान् वारिवाजसमन्वितान् । स याति पुरुषो वीर ! लोकान् वै हेममालिनः ॥ करकान् कुम्भान् । वाजमन्नम् । हेममालिनः सूर्य्यस्य ॥ ब्रह्मपुराणे । “यः पश्यति तृतीयायां कृष्णं चन्दनचर्च्चितम् । वैशाखस्य सिते पक्षे स यात्यच्युतमन्दिरम् ॥” स्कन्दपुराणम् । “वैशाखस्य सिते पक्षे तृतीयाक्षयसंज्ञिता । तत्र मां लेपयेद्गन्धलेपनैरतिशोभनैः ॥” * ॥ ब्रह्मपुराणम् । “वैशाखशुक्लपक्षे तु तृतीयायां जनार्द्दनः । यवानुत्पादयामास युगञ्चारब्धवान् कृतम् ॥ ब्रह्मलोकात्त्रिपथगां पृथिव्यामवतारयत् । तस्यां कार्य्यो यवैर्होमो यवैर्व्विष्णुं समर्च्चयेत् ॥ यवान् दद्यात् द्विजातिभ्यः प्रयतः प्राशयेद्- यवान् । पूजयेत् शङ्करं गङ्गां कैलासञ्च हिमालयम् ॥ भगीरथञ्च नृपतिं सागराणां सुखावहम् । स्नानं दानं तपः श्राद्धं जपहोमादिकञ्च यत् ॥ श्रद्धया क्रियते तत्र तदानन्त्याय कल्प्यते ॥ अत्रानन्त्यफलश्रुतेः पूर्ब्बवचने नक्षत्रयोगः फला- तिशयार्थः ।” इति तिथ्यादितत्त्वम् ॥ * ॥ पाद्मे श्रीवराहधरणीसंवादे । “त्रेतायुगं तृतीयायां शुक्लायां मासि माधवे । प्रवृत्तञ्च त्रयीधर्म्माः प्रवृत्तास्ते प्रवर्त्तिताः ॥ अक्षया सोच्यते लोके तृतीया हरिवल्लभा । स्नाने दानेऽर्च्चने श्राद्धे जपे पूर्ब्बजतर्पणे ॥ येऽर्च्चयन्ति यवैर्व्विष्णुं श्राद्धं कुर्व्वन्ति यत्नतः । तस्यां ददति दानानि धन्यास्ते वैष्णवा नराः ॥” इति श्रीहरिभक्तिविलासे १४ । १३४ ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीया¦ स्त्री तृतीय + टाप्।

१ चन्द्रमण्डलस्य तृतीयकला-क्रियायां

२ तदुपलक्षिते कालभेदे च तत्र व्रतादिकालव्यव-स्थादि तिथिशब्दे

३२

९० पृ॰ दर्शितम्। जन्मनक्षत्रापेक्षया

३ तृतीयद्वादशैकविंशात्मकनक्षत्ररूपविपत्तारायाञ्च।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीया [tṛtīyā], 1 The third day of a lunar fortnight.

(In gram.) The instrumental case or its terminations. -Comp. -कृत a. thrice ploughed (as a field).-तत्पुरुषः the instrumental Tatpuruṣa. -प्रकृतिः m., f.

a eunuch.

a hermaphrodite.

the neuter gender.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


तृतीया f. ( scil. तिथि)= यिकाJyot. etc.

तृतीया f.

तृतीया ind.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


TṚTĪYĀ : A river. This river sat in the court of Varuṇa worshipping him. (Śloka 21, Chapter 9, Sabhā Parva).


_______________________________
*1st word in left half of page 797 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=तृतीया&oldid=430356" इत्यस्माद् प्रतिप्राप्तम्