तृष
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तृष, इर् य तृञि षि । इति कविकल्पद्रुमः ॥ (दिवां-परं-सकं-सेट् ।) इर्, अतृषत् अत- र्षीत् । अस्मात् पुषादित्वात् नित्यं ङ इत्यन्ये । य, तृष्यति । ञि, तृषितोऽस्ति । तृट् आकाङ्क्षा । तथा च । इच्छाकाङ्क्षा स्पृहेहा तृट् वाञ्छा लिप्सा मनोरथः । इत्यमरसिंहः । तदुप- स्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णयेति रघुः । तृष्यति धनं लोकः । तृषि पिपासाया- मिति प्राञ्चः । तृष्यति तोयं पान्थः । इति रमानाथः । इति दुर्गादासः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तृष¦ तृष्णायां दिवा॰ पर॰ सक॰ सेट्। तृष्यति इरित् अतृषत्अतर्षीत्। ततर्ष।
“तृषित्वेवानिशं स्वादु पिबन्तं सरितांपयः”।
“मुमूर्च्छुर्ववमूरक्तं ततृषुश्चोभये भटाः”
“रक्त-मश्च्योतिषुः क्षुण्णाः क्षताश्च कपयोऽतृषन्” भट्टिः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तृष (ञि आ) ञितृषा¦ r. 4th cl. (तृष्यति)
1. To thirst.
2. To thirst metaphori- cally, to desire, to long for. E. दिवा-पर-सक-सेट् |