सामग्री पर जाएँ

तेजनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तेजनः, पुं, (तेजयति अग्निमिति । तिज + णिच् + ल्युः ।) वंशः । इत्यमरः । २ । ४ । १६१ ॥ मुञ्जः । भद्रमुञ्जः । इति राजनिर्घण्टः ॥ (बाणादीनां फलके । यथा, मनुः । ७ । ९० । “न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥” उद्दीपने, क्ली । यथा, सुश्रुते चिकित्सा- स्थाने । २४ अध्याये । “सिरामुखविविक्तत्वं त्वक्स्थस्याग्नेश्च तेजनम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=तेजनः&oldid=138580" इत्यस्माद् प्रतिप्राप्तम्