सामग्री पर जाएँ

तेजपत्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तेजपत्रम्, क्ली, (तेजयतीति । तिज + णिच् + अच् । तेजं पत्रमस्य ।) स्वनामख्यातवृक्षः । तज इति तेजपात इति च भाषा । तत्पर्य्यायः । गन्ध- जातम् २ पत्रम् ३ पत्रकम् ४ । इति शब्दरत्ना- वली । अस्य गुणाः । कफवाय्वार्शोहृल्लासारुचि- नाशत्वम् । इति राजवल्लभः ॥ अमरोक्त- पर्य्यायास्त्वक्पत्रशब्दे द्रष्टव्याः ॥ तस्य नाम- गुणाः । “त्वक्पत्रञ्च वराङ्गं स्याद्भृङ्गं चोचं तथोत्कटम् । त्वचं लघूष्णं कटुक स्वादु तिक्तञ्च रूक्षकम् ॥ पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम् । हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृत् ॥” इति भावप्रकाशः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तेजपत्र¦ न॰ तेजयति तिज--णिच्--अच् तेजं पत्रमस्य। (तेज-पात) ख्याते वृक्षभेदे।
“तेजपत्रं वराङ्गं स्यात् त्वचंचोचं तथोत्कटम्। त्वचं लघूष्णं कटूकं स्वादु तिक्तञ्चरूक्षकम्। पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम्। हृद्वस्तिरोगवातार्शःकृमिपोनसशुक्रहृत्” भावप्र॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तेजपत्र¦ n. (-त्रं) The leaf of the Laurus cassia. E. तेज sharp, pungent, and पत्र a leaf. [Page320-b+ 60]

"https://sa.wiktionary.org/w/index.php?title=तेजपत्र&oldid=407230" इत्यस्माद् प्रतिप्राप्तम्