सामग्री पर जाएँ

तेजपत्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तेजपत्रम्, क्ली, (तेजयतीति । तिज + णिच् + अच् । तेजं पत्रमस्य ।) स्वनामख्यातवृक्षः । तज इति तेजपात इति च भाषा । तत्पर्य्यायः । गन्ध- जातम् २ पत्रम् ३ पत्रकम् ४ । इति शब्दरत्ना- वली । अस्य गुणाः । कफवाय्वार्शोहृल्लासारुचि- नाशत्वम् । इति राजवल्लभः ॥ अमरोक्त- पर्य्यायास्त्वक्पत्रशब्दे द्रष्टव्याः ॥ तस्य नाम- गुणाः । “त्वक्पत्रञ्च वराङ्गं स्याद्भृङ्गं चोचं तथोत्कटम् । त्वचं लघूष्णं कटुक स्वादु तिक्तञ्च रूक्षकम् ॥ पित्तलं कफवातघ्नं कण्ड्वामारुचिनाशनम् । हृद्वस्तिरोगवातार्शःकृमिपीनसशुक्रहृत् ॥” इति भावप्रकाशः ॥

"https://sa.wiktionary.org/w/index.php?title=तेजपत्रम्&oldid=138585" इत्यस्माद् प्रतिप्राप्तम्