तैजसः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तैजसः, पुं, (तेजसो विकारः । तेजस् + अण् ।) सूक्ष्मशरीरव्यष्ट्युपहितचैतन्यम् । यथा, -- “एतद्व्यष्ट्युपहितं चैतन्यं तैजसो भवति तेजो- मयान्तःकरणोपहितत्वात् ॥” इति वेदान्त- सारः ॥ (तैजसाहङ्कारविशेषः । यथा, भाग- वते । २ । ५ । २४ । “सोऽहङ्कार इति प्रोक्तो विकुर्व्वन् समभूत्त्रिधा । वैकारिकस्तैजसश्च तामसश्चेति यद्भिदा ॥” घोटकविशेषः । तल्लक्षणादिकं यथा, भोज- राजकृतयुक्तिकल्पतरौ । “ये क्रोधशीला भृशवेगयुक्ता मुक्ता दिनात् क्रोशशतं व्रजन्ति । ते तैजसाः पुण्यवतां प्रदेशे भवन्ति पुण्यैरपि ते मिलन्ति ॥” सुमतिपुत्त्रः । यथा, ब्रह्माण्डे ३६ अध्याये । “तैजसस्तत्सुतश्चापि प्रजापतिरमित्रजित् ॥”)
