तैजसम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तैजसम्, क्ली, (तेजसो विकारः । तेजस् + “तस्य विकारः ।” ४ । ३ । १३४ । इत्यण् ।) घृतम् । इति स्मृतिः ॥ धातुद्रव्यम् । इत्यमरः । २ । ९ । ९९ ॥ (यथा, मनुः । ५ । १११ । “तैजसानां मणीनाञ्च सर्व्वस्याश्ममयस्य च ॥” तीर्थविशेषः । यथा, महाभारते । ९ । ४६ । १०३ । “तैजसं नाम तत्तीर्थं यत्र पूर्ब्बमपाम्पतिः । अभिषिक्तः सुरगणैर्व्वरुणो भरतर्षभ ! ॥” तेजःसम्बन्धिनि, त्रि । यथा, रघुः । ११ । ४३ । “तैजसस्य धनुषः प्रवृत्तये तोयदानिव सहस्रलोचनः ॥”)
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--ब्रह्मा's अर्वाक्तेजस्. वा. ६५. ३३.