तैत्तिरीया
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तैत्तिरीया, स्त्री, (तित्तिरिणा प्रोक्ता । छण् ।) यजुर्व्वेदस्य शाखाविशेषः । यथा, -- “देवरातसुतः सोऽपि छर्द्दित्वा यजुषां गणम् । ततो गतोऽथ मुनयो ददृशुस्तान् यजुर्गणान् ॥ यजूंषि तित्तिरा भूत्वा तल्लोलुपतया ददुः । तैत्तिरीया इति यजुःशाखा आसन् सुपेशलाः ॥” इति श्रीभागवतम् ॥
