तैलकारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तैलकारः, पुं, (तैलं करोतीति । कृ + “कर्म्म- ण्यण् ।” ३ । २ । १ । इत्यण् ।) वर्णसङ्कर- जातिविशेषः । कलु इति भाषा । स कोटक- स्त्रीगर्भे कुम्भकाराज्जातः । इति ब्रह्मवैवर्त्ते ब्रह्मखण्डम् ॥ तत्पर्य्यायः । धूसरः २ चाक्रिकः ३ तैली ४ । इति हेमचन्द्रः ॥ (यथा, आर्य्या- सप्तशत्याम् । ५९२ । “स्नेहमयान् पीडयतः किं चक्रेणापि तैल- कारस्य । चालयति पार्थिवानपि यः स कुलालः परं चक्री ॥” यात्राकालेऽस्य दर्शनममङ्गलसूचकम् । यथा, ब्रह्मवैवर्त्ते गणपतिखण्डे ३५ अध्याये । “ददर्शामङ्गलं राजा पुरो वर्त्तनि वर्त्तनि ॥” “कुम्भकारं तैलकारं व्याधं सर्पोपजीविनम् ॥”)
