तैलपर्णिकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तैलपर्णिकम्, क्ली, (तैलयुक्तं पर्णमस्त्यस्य । यद्बा, तिलपर्णो वृक्ष उत्पत्तिस्थानत्वेनास्त्यस्येति । ठन् ।) हरिचन्दनम् । इत्यमरः । २ । ६ । १३१ ॥ चन्दनविशेषः । तत्तु तिलपर्णवृक्षजातं धवलं सुशीतलम् । इति भरतः ॥ (अस्य पर्य्याय यथा, “श्रीखण्डं चन्दनं न स्त्री भद्रश्रीस्तैलपर्णिकः । गन्धसारो मलयजस्तथा चन्द्रद्युतिश्च सः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ वृक्षविशेषे, पुं । यथा, हरिवंशे । २२३ । ६८ । “कदम्बाश्चैव भव्याश्च दाडिमा वीजपूरकाः । कालीयका दुकूलाश्च हिङ्गवस्तैलपर्णिकाः ॥”)
