सामग्री पर जाएँ

तोमरः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तोमरः, पुं क्ली, (तुम्पति हिनस्तीति । तुम्प + बाहुलकात् अरप्रत्ययेन साधुः । इत्युज्ज्वलदत्ते- नोक्तम् । ३ । १३१ ।) अस्त्रविशेषः । शावली इति भाषा । तत्पर्य्यायः । शर्व्वला २ । इत्य- मरः । २ । ८ । ९३ ॥ (यथा, देवीभागवते । ५ । ५ । २९ । “गदाभिः पट्टिशैः शूलैश्चक्रैश्च शक्तितोमरैः ॥”) हस्तक्षेप्यसशल्यदण्डः । इति महाभारतटीका ॥ रायवा~श इति भाषा ॥ (अस्य आकृत्यादिक- मुक्तं वैशम्पायनेन तद्यथा, -- “तोमरः काष्ठकायः स्यात् लौहशीर्षः सुपुच्छवान् । हस्तत्रयोन्नताङ्गश्च रक्तवर्णस्त्ववक्रगः ॥” शार्ङ्गधरेण तु, -- “फणवत् शीर्षदेशः स्यात्तोमरस्त्वायसस्तथा ॥” वैशम्पायनोक्तान्यस्य कार्य्याणि यथा, -- “उद्धानं विनियुक्तिश्च वेधनञ्चेति तत्त्रिकम् । वल्गितं शस्त्रतत्त्वज्ञाः कथयन्ति नराधिपाः ॥” अग्निपुराणोक्तधनुर्व्वेदमतेऽस्य कार्य्याणि यथा, “दृष्टिघातं भुजाघातं पार्श्वघातं द्विजोत्तम ! । ऋजुपक्षेषुणा पातं तोमरस्य प्रकीर्त्तितम् ॥” जनपदविशेषः । यथा, मात्स्ये । १२० । ५७ । “तोमरान् प्लावयन्ती च हंसमार्गान् समूहकान् ॥” नवाक्षरछन्दोविशेषे, क्ली । शब्दार्थचिन्ता- मणिधृतं तल्लक्षणादिकं यथा, -- “प्रथमं सकं विनिधाय जगणद्बयञ्च निधाय । कुरु तोमरं सुखकारि फणिराजवक्त्रविहारि ॥” उदाहरणम्, -- “सखि ! मादके मधुमासि व्रज सत्वरं किमिहासि । सहते न किं विहरामि किमु पावकं प्रविशामि ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तोमरः [tōmarḥ] रम् [ram], रम् 1 An iron club; Mb.7.142.45.

A javelin.

A kind of crescent-shaped edge of an arrow with the ends of the crescent pointing downwards; Dhanur. V.

Comp. धरः fire (considered as a deity).

a warrior armed with a club.

"https://sa.wiktionary.org/w/index.php?title=तोमरः&oldid=408362" इत्यस्माद् प्रतिप्राप्तम्