तोयदः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तोयदः, पुं, (तोयं ददातीति । दा + कः ।) मेघः । (यथा, महानिर्व्वाणतन्त्रे । ४ । ५३ । “यदा क्षौणी स्वल्पफला तोयदाः स्तोकवर्षिणः असम्यक्फलिनो वृक्षास्तदैव प्रबलः कलिः ॥”) मुस्तकम् । घृते, क्ली । इति मेदिनी । दे, ३० ॥ जलदातरि त्रि ॥ (यथा, महाभारते शान्ति- पर्व्वणि । “तोयदो मनुजव्याघ्र ! स्वर्गं गत्वा महाद्युते ! । अक्षयान् समवाप्नोति लोकानित्यब्रवीन् मनुः ॥”)
