तोरणः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तोरणः, पुं क्ली, (तुतोर्त्ति त्वरया गच्छत्यनेनेति । तुर त्वरणे + करणे ल्युट् ।) बहिर्द्वारम् । इत्यमरः । २ । ३ । १६ ॥ (यथा, कुमारे । ७ । ३ । “भासोज्ज्वलत्काञ्चनतोरणानां स्थानान्तरं स्वर्ग इवावभासे ॥”) मूलद्वाराद्वाह्यद्वारम् । इति कोक्कटादयः ॥ द्वाराग्रे निखातस्तम्भयोरुपरिनिबद्धं नानावस्त्र- रत्नादिमयं घनुराकारं यल्लक्ष्यं तत् तोरण- मिति बहवः ॥ उपरिस्रगादियुक्तस्तम्भादिद्बय- निर्म्मितपुरादिबहिर्द्वारम् । इति साञ्जः ॥ बन्धनमालेति ख्यातं इति केचित् । इत्यमर- टीकायां भरतः ॥ (महादेवे, पुं । यथा, महाभारते । १३ । १७ । ११७ । “तोरणस्तारणो वातः परिधीपतिखेचरः ॥”)
Apte
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
तोरणः [tōraṇḥ] णम् [ṇam], णम् [तुर्-युच् आधारे ल्युट् Tv.]
An arched doorway, a portal.
An outer door or gateway; गणो नृपाणामथ तोरणाद् बहिः Śi.12.1; दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन Me.77 (v.l).
Any temporary and ornamental arch, भासोज्ज्वलत्काञ्चनतोरणानां स्थानान्तरं स्वर्ग इवाबभासे Ku. 7.3; R.1.41;7.4;11.5.
An elevated place near a bathing-place.
A triangle supporting a large balance. -णम् The neck, throat. -णः N. of Śiva.
