सामग्री पर जाएँ

तोलकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तोलकम्, क्ली पुं, (तोलमेव + स्वार्थे कन् ।) शाण- द्वयमानम् । इति शब्दमाला ॥ अशीतिरक्ति- परिमाणम् । तत्तु षोडशमासकः षण्णवतिरक्ति- परिमाणञ्च । तोला इति भरि इति च भाषा । तत्पर्य्यायः । कोलम् २ द्रङ्क्षणम् ३ वटकम् ४ कर्षार्द्धम् ५ । इति वैद्यकपरिभाषा । कर्षम् ६ । इति लीलावती ॥ (यथा, वैद्यकरसेन्द्रसारसंग्रहे ज्वराधिकारे बृहज्ज्वरान्तके । “रसं गन्धं तोलकञ्च जातीकोषफले तथा ।” “किराततिक्तकं बालं तोलकञ्च समाहरेत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=तोलकम्&oldid=138730" इत्यस्माद् प्रतिप्राप्तम्