सामग्री पर जाएँ

तौर्य्यत्रिकम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

तौर्य्यत्रिकम्, क्ली, (त्रयोऽंशा यस्य तत् । त्रि + “संख्याया अतिशदन्तायाः कन् ।” ५ । १ । २२ । इति कन् । तौर्य्योपलक्षितं त्रिकम् ।) नृत्य- गीतवाद्यमिदं समुदितं त्रयं नाट्यञ्च । इत्य- मरः । १ । ७ । १० ॥ नटसम्बन्धि नृत्यगीत- वाद्यमिति त्रयम् । इति तट्टीकासारसुन्दरी ॥ (यथा, मनुः । ७ । ४७ । “मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्य्यत्रिकं वृथाट्या च कामजो दशको गणः ॥”) विष्णुगृहे गीतवाद्यनृत्यफलं यथा, -- “गायनं ये प्रकुर्व्वन्ति मम कर्म्मपरायणाः । तेषां यद्यत् फलं भूमे ! शृणुष्व गदतो मम ॥ यावन्ति चाक्षराण्येव गीयमाने यशास्विनि ! । तावद्बर्षसहस्राणि इन्द्रलोके महीयते ॥ रूपवान् गुणवान् सिद्धः सर्व्ववेदविदां वरः । नित्यं पश्यति वै वज्रपाणिं देवं न संशयः ॥ मद्भक्तश्चैव जायेत इन्द्रलोकपथे स्थितः । सर्व्वकर्म्मगुणश्रेष्ठस्तत्रापि मम पूजकः ॥ इन्द्रलोकात् परिभ्रष्टो मम गीतपरायणः । प्रमुक्तः सर्व्वसंसारान्मम लोकाय गच्छति ॥ यस्तु गायति सुश्रोणि ! कौमुद्याञ्चैव द्बादशीम् । सर्व्वसङ्गं परित्यज्य मम लोकाय गच्छति ॥ यस्तु गायति गीतानि मम जागरणे सदा । सर्व्वसङ्गात् प्रमुक्तो वै मम लोकाय गच्छति ॥ एतत्ते कथितं देवि ! गायनस्य फलं महत् । यस्य गीतस्य शब्देन तरेत् संसारसागरम् ॥ * ॥ वादित्रस्य प्रवक्ष्यामि तत् शृणुष्व वसुन्धरे ! । प्राप्तवान्मनुजो येन देवेभ्यः समतां स्वयम् ॥ सम्पत्कालप्रयोगेण सन्निपातेन वा पुनः । नववर्षसहस्राणि नववर्षशतानि च ॥ कुवेरभवनं गत्वा मोदते वै यदृच्छया । कुवेरभवनाद्भ्रष्टः स्वच्छन्दगमनालयः ॥ शय्यादितालसम्पातैर्मम लोकाय गच्छति ॥ * ॥ नृत्यमानस्य वक्ष्यामि तच्छृणुष्व वसुन्धरे ! । मनुजा येन गच्छन्ति छित्त्वा संसारसागरम् ॥ त्रिंशद्वर्षसहस्राणि त्रिंशद्बर्षशतानि च । पुष्करद्वीपमासाद्य स्वच्छन्दगमनालयः ॥ फलं प्राप्नोति सुश्रोणि ! मम कर्म्मपरायणः । रूपवान् गुणवान् शूरः शीलवान् सुपथे स्थितः ॥ मद्भक्तश्चैव जायेत संसारपरिमोचितः ॥ * ॥ यस्तु जागरतो नित्यं गीतवाद्येन नर्त्तकः । जम्बुद्वीपं समासाद्य राजराजस्तु जायते ॥ सर्व्वकर्म्मसमायुक्तो रक्षिता वै महीपतिः । मद्भक्तश्चैव जायेत मम कर्म्मपरायणः ॥” इति वराहपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=तौर्य्यत्रिकम्&oldid=138743" इत्यस्माद् प्रतिप्राप्तम्