त्यक्तम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्यक्तम्, त्रि, (त्यज्यते स्मेति । त्यज त्यागे + क्तः ।) कृतत्यागम् । तत्पर्य्यायः । हीनम् २ विधु- तम् ३ समुज्झितम् ४ धूतम् ५ उत्सृष्टम् ६ । इत्यमरः । ३ । १ । १०७ ॥ विनाकृतम् ७ विरहितम् ८ निर्व्यूढम् ९ । इति त्रिकाण्ड- शेषः ॥ (यथा, रामायणे । २ । ३७ । २ । “त्यक्तभोगस्य मे राजन् ! वने वन्येन जीवतः । किं कार्य्यमनुयात्रेण त्यक्तसङ्गस्य सर्व्वतः ॥”)
