सामग्री पर जाएँ

त्यज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्यज, औ हानौ । इति कविकल्पद्रुमः ॥ (भ्वां- परं-सकं-अनिट् ।) औ, अत्याक्षीत् । हानि- र्वर्ज्जनम् । त्यजति दुष्टलोकं जनः । इति दुर्गा- दासः ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्यज¦ हानौ दाने च भ्वा॰ सक॰ पर॰ अनिट्। त्यजतिअत्याक्षीत् तत्याज। त्यक्तव्यं त्याज्यम् त्यागः त्यक्तं त्यक्त्वात्यागी।
“त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत्। ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत्” चाणक्यः
“योऽत्याक्षीत् संयुगं भयात्” भा॰ द्री॰

९५ अ॰
“तं तत्याजाहितं पुत्रम्” रामा॰

२ ।

३६ अ॰।
“नैवनीलिवर्णेन कदाचित् त्यज्यते” पञ्चत॰। (शूराः)
“मदर्थेत्यक्तजीविताः” गीता
“प्रतिरोद्धा गुरोश्चैव त्यक्ताग्नि-र्वार्द्धुषिस्तथा” मनुः
“न माता न पिता न स्त्री नपुत्रस्त्यागमर्हति” मनुः
“त्याज्यं दोषवदित्येके कर्म प्राहु-र्मनीषिणः। यज्ञदानतपः कर्म न त्याज्यमिति चापरे” गीता
“ज्ञातिसम्बन्धिभिस्त्वेते त्यक्तव्याः कृतलक्षणाः” --मनुः
“चतुष्पदाः स्वयूथेभ्यस्त्यक्तव्याः परभूमिषु” वृ॰ स॰

६० अ॰। वेदे तु नि॰। णलि तित्याज
“यस्तित्याज सचि विदं सखा-यम्” ऋ॰

१० ।

७१ ।

६ । त्यागश्च स्वत्वध्वं सानुकूलव्यापारः नममेदमित्याकारः। स च मूर्त्तद्रव्याणामेव भवति अमूर्त्त-जीवनादेर्वियोजनरूपः। उपसर्गपूर्वकस्य तत्तदुपसर्गद्यो-त्यार्थयुक्तत्यागे इति भेदः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्यज¦ r. 1st cl. (औ) त्यजौ (त्यजति) To quit, to abandon, to leave or resign, to part from, to give away.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्यज See. दुस्-.

"https://sa.wiktionary.org/w/index.php?title=त्यज&oldid=409108" इत्यस्माद् प्रतिप्राप्तम्