त्यत्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्यत्, [द्] त्रि, (त्यजति संसर्गमिति । त्यज् + “त्यजितनियजिभ्यो डित् ।” उणां १ । १३१ । इति अदिः स च डित् ।) तत् । सेइ इति भाषा । अस्य पुंलिङ्गस्त्रीलिङ्गयो रूपं स्यः स्या । सर्व्वनामशब्दोऽयम् । इति व्याकरणम् ॥ (यथा, ऋग्वेदे । १ । ६३ । ४ । “त्वं ह त्यदिन्द्र चोदीः सखा वृत्रं यद्बज्रिन् वृषकर्म्मन्नुभ्नाः ॥”)
त्यत्, [द्] क्ली, (त्यज् + “त्यजितनीति ।” उणां । १ । १३१ । इति अदिः स च डित् ।) वायुः । आकाशः । यथा, -- “सत्यव्रतं सत्यपरं त्रिसत्यं सत्त्यस्य योनिं निहितञ्च सत्त्ये । सत्त्यस्य सत्यमृतसत्यनेत्रं सत्यात्मकं त्वां शरणं प्रपन्नाः ॥” इति भागवते । १० । २ । २६ ॥ “सत्यव्रतमिति । सत्यं व्रतं सङ्कल्पो यस्य तम् । सत्यपरं सत्यं परं श्रेष्ठं प्राप्तिसाधनं यस्मिन् तम् । त्रिसत्यं त्रिष्वपि कालेषु सृष्टेः पूर्ब्बं प्रलयानन्तरं स्थितिसमये च सत्यं अव्यभिचारेण वर्त्तमानम् । तदेवाहुः सत्त्यस्य योनिमिति । सच्छब्देन पृथिव्यप्तेजांसि त्यच्छब्देन वाय्वाकाशौ एवं सच्च त्यच्च सत्त्यं भूतपञ्चकम् । ‘तत् सत्त्यमित्या- चक्षते ।’ इति श्रुतेः । तस्य योनिं कारणम् । अनेन सृष्टेः पूर्ब्बं वर्त्तमानतोक्ता । तथा सत्त्ये तस्मिन्नेव निहितं अन्तर्यामितया स्थितम् । अनेन स्थितिसमयेऽपि सत्यत्वमुक्तम् । तथा मत्त्यस्य सत्यं तस्यैव सत्त्यस्य सत्यं पारमार्थिकं नाशेऽप्यवशिष्यमाणरूपम् । अनेन प्रलयेऽप्य- वधित्वे न सत्यत्वं दर्शितम् । एवं त्रिसत्यत्व- मुपपादितम् । तथा ऋतसत्यनेत्रं ऋतं सूनृता वाणी सत्यं समदर्शनम् । तथा भगवता व्याख्यास्य मानत्वात् । सत्यञ्च समदर्शनम् । ऋतञ्च सूनृता, वाणी कविभिः परिकीर्त्तिता इति । तयोर्नेत्रं नयनसाधनं नेतारं प्रवर्त्तकमिति यावत् । एवं सर्व्वप्रकारेण सत्यात्मकं त्वां वयं शरणं प्रपन्ना इत्यर्थः ।” इति तट्टीकायां श्रीधर- स्वामी ॥
