त्याज्यः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्याज्यः, त्रि, (त्यज्यते इति । त्यज + कर्म्मणि ण्यत् । “त्यजेश्च ।” इति ७ । ३ । ६६ । इत्यस्य वार्त्तिकोक्त्या न कुत्वम् ।) त्यागयोग्यः । वर्ज्ज- नीयः । यथा, प्रायश्चित्ततत्त्वे । “तीरे प्रतिग्रहस्त्याज्यस्त्याज्यो धर्म्मस्य विक्रयः ॥” (यथा, च देवीभागवते । १ । ११ । ५९ । “तारामय्यनुरक्ता च यथा न तु तथा गुरौ । अनुरक्ता कथं त्याज्या घर्म्मतो न्घायतस्तथा ॥”)
