त्रपुसम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रपुसम्, क्ली, (त्रपते वह्नियोगेन लज्जते इव । त्रप + बाहुलकात् उसः ।) रङ्गम् । इति राज- निर्घण्टः ॥ कर्कटी । अस्य गुणा यथा, -- “बालं सुनीलं त्रपुसं तेषां पित्तहरं स्मृतम् । तत् पाण्डुकफकृज्जीर्णमस्लं वातकफापहम् ॥” इति सुश्रुते सूत्रस्थाने ४६ अध्याये ॥)
