सामग्री पर जाएँ

त्राणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्राणम्, क्ली, (त्रै + भावे ल्युट् क्तो वा । नुदविदेति पक्षे नत्वम् ।) रक्षणम् । (यथा, शाकुन्तले १ अङ्के । “आर्त्तत्राणाय वः शस्त्रं न प्रहर्त्तुमनागसि ॥” त्रायते इति कर्त्तरि ल्युः । रक्षिता । यथा, महाभारते । १ । २३ । १८ । “त्वं प्रभास्त्वमभिप्रेतं त्वं नस्त्राणमनुत्तमम् ॥” तथाच रघौ । १५ । ३ । “अवेक्ष्य रामं ते तस्मिन् न प्रजह्रुः स्वतेजसा । त्राणाभावे हि शापास्त्राः कुर्व्वन्ति तपसो व्ययम् ॥” त्रायतेऽनेनेति करणे ल्युट् । कवचम् । अस्त्रम् । यथा, महाभारते । ३ । १६८ । १४ । “दंशिता विविधैस्त्राणैर्षिचित्रायुधपाणयः ॥”) त्रायमाणालता । रक्षिते, त्रि । इति मेदिनी । णे, १४ ॥

"https://sa.wiktionary.org/w/index.php?title=त्राणम्&oldid=138823" इत्यस्माद् प्रतिप्राप्तम्