त्रातम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रातम्, त्रि, (त्रै + क्तः नुदविदेति नत्त्वाभावः ।) रक्षितम् । इत्यमरः । ३ । १ । १०६ ॥ (यथा, मार्कण्डेये । ८४ । २२ । “त्रैलोक्यमेतदखिलं रिपुनाशनेन त्रातं त्वया समरमूर्द्धनि तेऽपि हत्वा । नीता दिवं रिपुगणा भयमप्यपास्त- मस्माकमुन्मदसुरारिभवन्नमस्ते ॥” भावे क्तः ।) रक्षणे, क्ली ॥
