त्रिककुत्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिककुत्, [द्] पुं, (त्रीणि ककुत्-सदृशानि ध्वज- तुल्याणि शृङ्गाणि यस्य ।) त्रिकूटपर्व्वतः । इत्यमरः । २ । ३ । २ ॥ (यथा, शतपथब्राह्मणे । ३ । १ । ३ । १२ । “यत्र वा इन्द्रो वृत्रमहं- स्तस्य यदक्ष्यासीत्तं गिरिं त्रिककुदमकरोत् ॥” विष्णोर्नामविशेषः । यथा, महाभारते । १२ । ३४२ । ९० । “तथैवासं त्रिककुदो वाराहं रूपमास्थितः । त्रिककुत्त्वेन विख्यातः शरीरस्य प्रमापणात् ॥” दशरात्रसाध्ययज्ञविशेषः । यथा, तैत्तिरीय- संहितायाम् । ७ । २ । ५ । २ । “त्रिककुद्वा एष यज्ञो यद्दशरात्रः ककुत्पञ्च- दशः ककुदेकविंशः कुकुत्त्रयस्त्रंशो य एवं विद्वान् दशरात्रेण यजते त्रिककुदेव समानानां भवति ॥”)
Purana index
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
--the son of शुचि; also known as Dharma- सारथि. Father of शान्तरय. भा. IX. १७. ११-12.
