सामग्री पर जाएँ

त्रिकण्टः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिकण्टः, पुं, (त्रीणि कण्टानि कण्टकानि यस्य ।) गोक्षुरकः । इति शब्दरत्नावली ॥ पत्रगुप्तवृक्षः । इति शब्दचन्द्रिका ॥ तेका~टासिज इति भाषा । मत्स्यभेदः । टेङ्गरा इति भाषा । अस्य गुणाः । पित्तकफनाशित्वम् । रूक्षत्वम् । अग्निदीपन- त्वम् । लघुत्वञ्च । इति राजवल्लभः ॥ (पर्य्यायोऽस्य यथा, वैद्यकरत्नमालायाम् ॥ “त्रिकण्टः स्थलशृङ्गाटो गोकण्टोऽथ त्रिकण्टकः । त्रिपुटः कण्टकफलः श्वदंष्ट्रा गोक्षुरः क्षुरः ॥”) कण्टकः, पुं, (त्रीणि कण्टकानि यस्य ।) लघु- गर्गमत्स्यः । इति त्रिकाण्डशेषः ॥ गोक्षुरक- वृक्षः । इति हेमचन्द्रः । ४ । २२२ ॥ (यथा, -- “त्रिकण्टः स्थलशृङ्गाटो गोकण्टोऽथ त्रिक- ण्टकः ॥” इति वैद्यकरत्नमालायाम् ॥)

"https://sa.wiktionary.org/w/index.php?title=त्रिकण्टः&oldid=138853" इत्यस्माद् प्रतिप्राप्तम्