त्रिकम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिकम्, क्ली, (त्रयाणां सङ्घः । “संख्यायाः संज्ञा- सङ्घसूत्राध्ययनेषु ।” ५ । १ । ५८ । इति कन् ।) पृष्ठवंशाधरः । इत्यमरः । २ । ६ । ७६ ॥ (यथा, माघे । १२ । १० । “नस्या गृहीतोऽपि धुवन्विषाणयो- र्युगं ससूत्कारविवर्त्तितत्रिकः ॥”) त्रयम् । इति मेदिनी । के, २६ ॥ (यथा, मनुः । ७ । ५१ । “दण्डस्य पातनञ्चैव वाक्पारुष्यार्थदूषणे । क्रोधजेऽपि गणे विद्यात् कष्टमेतत्त्रिकं सदा ॥”) त्रिपथसंस्थानम् । इति हेमचन्द्रः । ४ । ५२ ॥ त्रिफला । त्रिकटु । त्रिमदः । यथा, सुखबोधे । गुडूचीसारसंयुक्तात्त्रिकत्रयसमन्वयात् । वातरक्तं निहन्त्याशु सर्व्वरोगहरन्त्वयः ॥” (तृतीयेन रूपेण ग्रहणं यस्य । तृतीय + “तावतिथं ग्रहणमिति लुग्वा ।” ५ । २ । ७७ । इति कन् पूरणप्रत्ययस्य च लुक् । तृतीयके, त्रि । यथा, मनुः । ८ । १४२ । “द्विकं त्रिकं चतुष्कञ्च पक्षकञ्च शतं समम् । मासस्य वृद्धिं गृह्णीयात् वर्णानामनुपूर्ब्बशः ॥”)
