त्रिकूटः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिकूटः, पुं, (त्रीणि कूटानि शृङ्गाणि यस्य ।) पर्व्वतविशेषः । यस्योपरि लङ्का । (यथा, रामा- यणे । ५ । २ । १ । “स सागरमनाधृष्यमतिक्रम्य महाबलः । त्रिकूटस्य तटे लङ्कां स्थितः स्वस्थो ददर्श ह ॥”) तत्पर्य्यायः । त्रिककुत् २ । इत्यमरः । २ । ३ । २ ॥ सुवेलः ३ त्रिमुकुटः ४ । इति हेमचन्द्रः ॥ त्रिशृङ्गः ५ । चित्रकूटकः ६ । इति शब्दरत्ना- वली ॥ (अयन्तु पीठस्थानानामन्यतमः । अत्र भगवती रुद्रसुन्दरीरूपेण विराजते । यथा, देवीभागवते । ७ । ३० । ६६ । “नारायणी सुपार्श्वे तु त्रिकूटे रुद्रसुन्दरी ॥”) क्षीरोदसमुद्रतीरस्थपर्व्वतः । यथा, -- “सर्व्वरत्नमयः श्रीमान् त्रिकूटो नामः पर्व्वतः । सुतः पर्व्वतराजस्य सुमेरोर्भास्करद्युतेः ॥ क्षीरोदजलवीच्या यो धौतामलशिलातलः । उत्थितः सागरं भित्त्वा देवर्षिगणसेवितः ॥ अप्सरोभिः परिवृतः श्रीमान् प्रस्रवणाकुलः । गन्धर्व्वैः किन्नरैर्यक्षैः सिद्धचारणपन्नगैः ॥ विद्याधरैः सपत्नीकैः संयुतैस्तु तपस्विभिः । मृगद्वीपिगजेन्द्रैश्च वृतगात्रो विराजते ॥ पुन्नागैः कर्णिकारैश्च विल्वामलकपाटलैः । चूतनिम्बकदम्बैश्च चन्दनागुरुचम्पकैः ॥ शालैस्तालैस्तमालैश्च शरलार्ज्जुनपिप्पलैः । तथान्यैर्व्विविधैर्वृक्षैः सर्व्वतः समलङ्कृतः ॥ नानाधात्वङ्कितैः शृङ्गैः प्रस्रवद्भिः समन्ततः । शोभितो रुचिरप्रख्यैस्त्रिभिर्व्वर्णैश्च सानुभिः ॥ मृगैः शाखामृगैः सिंहैर्म्मातङ्गैश्च सदामदैः । जीवञ्जीवकसंधुष्टैश्चकोरशिखिनादितैः ॥ तस्यैकं काञ्चनं शृङ्गं सेवते यद्दिवाकरः । नानापुष्पसमायुक्तं नानागन्धाधिवासितम् ॥ द्वितीयं राजतं शृङ्गं सेवते यन्निशाकरः । पाण्डराम्बुदसं काशं तुषारचयसन्निभम् ॥ वज्रेन्द्रनीलवैदूर्य्य्यतेजोभिर्भासयन् दिशः । तृतीयं ब्रह्मसदनं प्रकृष्टं शृङ्गमुत्तमम् ॥ न तत् कृतघ्नाः पश्यन्ति न नृशंसा न नास्तिकाः । नातप्ततपसो लोके ये च पापकृतो जनाः ॥ तस्य सानुमतः पृष्ठे सरः काञ्चनपङ्कजम् । कारण्डवसमाकीर्णं राजहंसोपशोभितम् ॥ गजो ह्यचलसंकाशो मदाच्चलितलोचनः । तृषितः पातुकामोऽसाववतीर्णश्च तज्जलम् ॥ स लीनः पङ्कजवने यूथमध्यगतश्चरन् । गृहीतस्तेन रौद्रेण ग्राहेणाव्यक्तमूर्त्तिना ॥ गरुडस्थो जगन्नाथो लोकाधारस्तपोधन ! । ग्राहग्रस्तं गजेन्द्रं तं तञ्च ग्राहं जलाशयात् ॥ उज्जहाराप्रमेयात्मा तरसा मधुसूदनः । स्थलस्थं दारयामास ग्राहं चक्रेण माधवः ॥ मोक्षयामास नागेन्द्रं पापेभ्यः शरणागतम् ॥” इति वामनपुराणम् ॥ (घोटकविशेषः । यथा, नकुलकृताश्वचिकित्- सिते । ४ । ९ । “त्रयो यस्य ललाटस्था आवर्त्ता अधरोत्तराः । त्रिकूटः स परिज्ञेयो वाजिवृद्धिकरः परः ॥”)
