सामग्री पर जाएँ

त्रिगर्त्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिगर्त्तः, पुं, (त्रयो गर्त्ता यत्र ।) देशविशेषः । लाहोराख्यदेशैकभागः । तत्पर्य्यायः । जाल- न्धरः २ । इति हेमचन्द्रः । ४ । २४ ॥ (देशो- ऽयं कूर्म्मविभागे उत्तरस्यामुक्तः । यथा, बृहत्- संहितायाम् । १४ । २५ । “उत्तरतः कैलासः” इत्युपक्रम्य, -- “त्रिगर्त्ततुरगाननाश्वमुखाः ॥” इत्युक्तवान् ॥) तद्देशस्थे पुं भूम्नि । (यथा, महाभारते । २ । २७ । १८ । “ततस्त्रिगर्त्ताः कौन्तेयं दार्व्वाः कोकनदास्तथा । क्षत्त्रिया बहवो राजन्नुपावर्त्तन्त सर्व्वशः ॥”) गणितान्तरम् । इति मेदिनी । ते, ११३ ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिगर्त्त¦ पु॰ त्रीणि गर्त्तानि यत्र।

१ जालन्धरे देशे हेमच॰। स च देशः वृ॰ स॰

१४ अ॰ कूर्मविभागे उत्तरस्यामुक्तः
“उत्त-रतः कैलास” इत्युपक्रमे
“आदर्शान्तद्वीपित्रिगर्ततुरगा-ननाश्वमुखाः” सोऽस्याभिजनः, तस्य राजा वाअण्। त्रैगर्त्त पित्रादिक्रमेण तद्देशवासिनि तन्नृपे चबहुषु अणो लुक्।

२ तत्रार्थे ब॰ व॰।
“द्रविडाम्बष्ठत्रिगर्त-सौराष्ट्रान्” वृ॰ स॰

९ अ॰।
“सुशर्मा च नरव्याघ्र!त्रिगर्तः प्रस्थलाधिपः” भा॰ द्रो॰

१७ अ॰। आर्षत्वात्एकत्वेऽपि अणोलुक्।
“मद्रराजश्च बलवान् त्रिगर्त्ताना-धीश्वरः” हरिवं॰

९१ अ॰। स्वार्थे क। तत्रार्थे त्रिका॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिगर्त्त¦ m. (-र्त्तः)
1. A country in the north-west division of India, or m. plu. (-र्त्ताः) Its inhabitants: apparently part of Lahore, said, by Mr. WILFORD, to be the modern Tahora, but differently described in the Koshas: see जालन्धर and वालहीक।
2. A form of calculation, (गणितान्तरे।) f. (-र्त्ता)
1. A small worm.
2. A lascivious woman, a wanton.
3. A woman in general.
4. A pearl. E. त्रि three, and गर्त्त a hole, &c.

"https://sa.wiktionary.org/w/index.php?title=त्रिगर्त्त&oldid=410322" इत्यस्माद् प्रतिप्राप्तम्