सामग्री पर जाएँ

त्रिगुणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिगुणम्, क्ली, (त्रयाणां सत्त्वरजस्तमसां गुणानां समाहारः ।) सत्त्वरजस्तमांसि । इति श्रीभाग- वतम् ॥ (प्रधानः । यथा, भागवते । ४ । २४ । २८ । “यः परं रहसः साक्षात्त्रिगुणाज्जीवसंज्ञितात् ।” “रहसः सूक्ष्मात् त्रिगुणात् प्रधानात् जीव- संज्ञितात् पुरुषाच्च परम् ॥” इति तट्टीकायां स्वामी ॥) त्रयाणां पूरणे गुणत्रययुक्ते च त्रि ॥ (यथा, मनुः । १ । १५ । “महान्तमेव चात्मानं सर्व्वाणि त्रिगुणानि च । विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च ॥” त्रयो गुणा आवृत्तयो यस्य । त्रिभिर्गुणिते । यथा, रघुः । २ । २५ । “सप्त व्यतीयुस्त्रिगुणानि तस्य दिनानि दीनोद्धरणोचितस्य ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिगुणम्/ त्रि--गुणम् ind. in 3 ways Caran2.

"https://sa.wiktionary.org/w/index.php?title=त्रिगुणम्&oldid=410343" इत्यस्माद् प्रतिप्राप्तम्