त्रिजातकम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिजातकम्, क्ली, (त्रिगुणितं जातं सुगन्धिद्रव्य- रूपम् । ततः स्वार्थे कन् ।) मिलिततुल्य- त्वगेलापत्राणि । यथा, -- “एलादित्रिभिरुद्दिष्टं त्रिजातं त्रिसुगन्धिकम् । चातुर्जातं सनागन्तु द्वयं वातकफापहम् ॥” अपि च । “त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् । नागकेशरसंयुक्तं चातुर्जातकमुच्यते ॥” इति स्रजनिर्घण्टः ॥ (अस्य लक्षणपर्य्याया यथा, -- “त्वगेलापत्रकैस्तुल्यैस्त्रिसुगन्धि त्रिजातकम् । तद्द्वयं रेचनं रूक्षं तीक्ष्णोष्णं मुखगन्धहृत् । लघुपित्ताग्निकृद्बल्यं कफवातविषापहम् ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
