त्रिणाचिकेतः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिणाचिकेतः, पुं, (त्रिकृत्वश्चितो नाचिकेतोऽग्नि- र्येन । पूर्ब्बपदादिति णत्वम् ।) यवुर्व्वेदैक- देशो ग्रन्थः । तद्वेदाध्यायी । (यथा, मनुः । ३ । १८५ । “त्रिणाचिकेतः पञ्चाग्निस्त्रिसुपर्णः षडङ्गवित् ॥” “त्रिणाचिकेतः अध्वर्य्युवेदभागस्तद्व्रतञ्च तद्- योगात् पुरुषोऽपि त्रिणाचिकेतः ॥” इति तट्टी- कायां कुल्लूकभट्टः ॥ नारायणस्य नामविशेषः । यथा, महाभारते १२ । ३३८ । ४ । “पञ्चाग्ने ! त्रिणाचिकेत ! षडङ्गनिधान ! ॥”)
