त्रिदण्डः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिदण्डः, पुं, (त्रिदण्डं चतुरङ्गुलगोबालवेष्टना- दन्योन्यसम्बन्धं अस्त्यस्येति । अर्शआदित्वा- दच् ।) सन्न्यासाश्रमः । यथा, -- “यस्त्वसंयतषड्वर्गः प्रचण्डेन्द्रियसारथिः । ज्ञानवैराग्यरहितस्त्रिदण्डमुपजीवति ॥” इति श्रीभागवतम् ॥ (त्रयाणां दण्डानां समाहारः । यतित्रिदण्डे, क्ली । यथा, महाभारते । १२ । ३२० । १५५ । “सप्ताङ्गस्यास्य राज्यस्य त्रिदण्डस्येव तिष्ठतः । अन्योन्यगुणयुक्तस्य कः केन गुणतोऽधिकः ॥” कायवाङ्मनोदण्डत्रये । यथा, मनुः । १२ । ११ । “त्रिदण्डमेतन्निक्षिप्य सर्व्वभूतेषु मानवः । कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति ॥ “सत्त्वमात्मा शरीरञ्च त्रयमेतत्त्रिदण्डवत् । लोकास्तिष्ठति संयोगात्तत्र सर्व्वं प्रतिष्ठितम् ॥” इति चरके सूत्रस्थाने प्रथमेऽध्याये ॥)
