त्रिदशः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिदशः, पुं, (तृतीया यौवनाख्या दशा यस्य । त्रिशब्दस्यात्र त्रिभागवत् तृतीयार्थकता । यद्बा, तिसो जन्मसत्त्वाविनाशाख्याः न तु मर्त्त्यानामिव वृद्धिपरिणामक्षयाख्याः दशा यस्य । यद्बा, त्रीन् तापान् दशति नाशयतीति । दन्श + मूलविभुजादित्वात् कः पृषोदरादित्वात् न- लोपः । यद्बा, त्र्यधिकास्त्रिरावृत्ताश्च दश परिमाणमस्य । समासे डच् । शाकपार्थि- वादिवत् मध्यलोपः ।) देवः । इत्यमरः । १ । १ । ७ ॥ (यथा, महाभारते । ३ । ८५ । १९ । “न्यवसत् परमप्रीतो ब्राह्मा च त्रिदशैः सह ॥” ते च अर्का द्वादश १२ रुद्रा एकादश ११ वसवोऽष्टौ ८ विश्वेदेवौ द्वौ २ समुदायेन त्रय- स्त्रिंशत् ३३ ॥ त्रिंशत् परिमिते, त्रि । यथा, महाभारते । १ । ११३ । २१ । “ततः स कौवरो राजा विहृत्य त्रिदशा निशाः ॥”)
