त्रिनयनः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
त्रिनयनः, पुं, (त्रीणि चन्द्रसूर्य्याग्निरूपाणि नय- नानि यस्य । “क्षुभ्नादिषु च ।” ८ । ४ । ३९ । इति निषेधात् न णत्वम् ।) शिवः । इति हला- युधः ॥ (यथा, महाभारते । १४ । ८ । २७ । “त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् ॥”) नयनत्रये, स्त्री ॥ (लोचनत्रयविशिष्टे, त्रि । यथा, मातृकासरस्वतीध्याने । “मुद्रामोक्षगुणं सुधाढ्यकलसं विद्याञ्च हस्ताम्बुजै- र्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवता- माश्रये ॥”)
