सामग्री पर जाएँ

त्रिपथम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

त्रिपथम्, क्ली, (त्रयाणां पथां समाहारः । “ऋक्- पूरिति ।” ५ । ४ । ७४ । इत्यः ।) त्रिमार्गम् । तेमाथा पथ इति भाषा । तत्पर्य्यायः । त्रिकम् २ । इति हेमचन्द्रः । ४ । ५२ ॥ “शून्यागारे श्मशाने वा निर्जने वा चतुष्पथे । बिल्वधात्रीद्रुमस्यान्तस्त्रिपथे वा भजेन्निशि । स भवेत् सर्व्वसिद्धीशः सर्व्ववेदविदां वरः ॥” इति गुप्तसाधनतन्त्रम् ॥ (तिसृणां नाडीनां पन्थाः । इति विग्रहे कपाल- कुहरे, पुं । यथा, हठयोगप्रदीपिकायाम् । ३ । ३७ । “कलां पराङ्मुखीं कृत्वा त्रिपथे परियोजयेत् । सा भवेत् खेचरी मुद्रा व्योमचक्रं तदुच्यते ॥”)

"https://sa.wiktionary.org/w/index.php?title=त्रिपथम्&oldid=138966" इत्यस्माद् प्रतिप्राप्तम्