त्रिपदी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपदी, स्त्री, (त्रयः पादा अस्याः । ङीपि पद्भावः ।) गोधापदी । इति रत्नमाला ॥ हस्ति- गात्रबन्धः । इति हेमचन्द्रः । ४ । २९६ ॥ (हस्ति- पादबन्धनम् । इति यादवः ॥ यथा, रघुः । ४ । ४८ । “नास्रसत् करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥”) त्रिपादयुक्ता । पदत्रयम् । इति व्याकरणम् ॥ भाषाकवितायाश्छन्दोविशेषः । यथा, -- “पज्झटिकान्ता यदि यमकान्ता द्बादश परिणतमात्रा । किन्नरगीतिः तदिति निवीतिः स्यार्द्धसमाक्षरगात्रा ॥” स्यपादान्त उदाहृतः । “यैषा सङ्गीतके नित्यं निवीतिः किन्नराख्यिका । सैव स्यात् प्राकृते गाने त्रिपदीति परिश्रुता ॥” इति काव्योदयः ॥ (त्रिषु मार्गेषु पादो गमनं यस्याः । गङ्गा । यथा, काशीखण्डे । २९ । ७६ । “त्रैलोक्यलक्ष्मीस्त्रिपदी तथ्या तिमिरचन्द्रिका ॥”)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपदी¦ स्त्री त्रयः पादा अस्याः अन्त्यलोपः समा॰ ङीपि पद्भावः।

१ त्रिपादयुक्तायां स्त्रियां

२ गायत्रीच्छन्दसिच तस्या अष्टा-क्षरपादत्वेन चतुर्विंशत्यक्षरायास्त्रिपादत्वात् तथात्वम्। यथा
“इदं बिष्णुर्विचक्रमे त्रेधा निदधे पदम्। समूढ-मस्य पांसुरे” ऋ॰

१ ।

२२ ।

१७ ।
“गायत्र्यस्येकपदी द्विपदीत्रिपदी चतुष्पद्यपदसि न हि पद्यसे” शत॰ ब्रा॰

१४ ।

८ ।

१५ ।

१० ।

३ हस्तिनां पादबन्धनार्थरज्वुभेदे
“नास्रसत्-करिणां ग्रैवं त्रिपदीच्छेदिनामपि” रघुः

४ अर्ध्याधारपात्र-भेदे (तेपाइ) तन्त्र सा॰

५ गोधापदीलतायां रत्नमा॰। स्वार्थेकत्रिपदिकापि तत्रार्थे। भाषाकवितायां

६ छन्दोभेदे तल्ल-क्षणं यथा
“पज्झटिकान्ता यदि यमकान्ता द्वादशपरिण-तमात्रा किन्नरगीतिस्तदिति नीवितिः स्यार्द्धसमाक्षर-गात्रा। (स्यःपदान्तः)। यैषा सङ्गीतके नित्यं निवीतिःकिन्नराख्यिका। सैव स्यात् प्राकृते गाने त्रिपदीतिपरिश्रुता” इति काव्योदयः।
“ढावृचि” पा॰ टापिभत्वात् पद्भावः। त्रिपद

७ गायत्र्यामृचि ऋग्भेदे स्त्री तच्छन्दस्के

८ ऋङ्मात्रे स्त्री
“त्रिपदा चैव सावित्री विज्ञेयंब्रह्मणो मुखम्” मनुः।
“द्विपदा याश्चतुष्पदास्त्रिपदायाश्च षट्पदाः” यजु॰

२३ ।

३४ ।
“त्रीणि पदानिपादा अस्याः
“इतिपदशब्देन समासः” वेददी॰। त्रिविक्रमे

८ परमेश्वरे पु॰ त्रीणि पदानि विचक्रमेइति श्रुतेस्तथात्वम्।
“त्रिपदस्त्रिदशाध्यक्षो महाशृङ्गःकृतान्तकृत्” विष्णु स॰।

९ अरत्नेर्दशमभागरूपपदत्रययुक्तेप्रक्रमे पु॰ यथा।
“पञ्चारत्निः पुरुषो दशपदो द्वादशा-ङ्गुलं पदं प्रक्रमस्त्रिपदः समविभक्तस्य” कात्या॰ श्रौ॰

१६ ।

८ ।

२१
“पञ्चारत्नयो यस्य सः पञ्चभिररत्निभिः पु-रुषः दशभिः पदैः पुरुषो द्वादशभिरङ्गुलैः पदम् इत्ये-वमर्थो न भवति इतः प्रागरत्न्यादीनां लक्षणस्यानुक्तत्वे-नासिद्धत्वात् अतश्चैवम् पुरुषस्य समविभक्तस्य यः पञ्चमोभागः सोऽरत्निः तस्य दशमो भागः पदम् पदस्य द्वा-दशो भागोऽङ्गुलम् त्रिभिः पदैरेकः प्रक्रमः” कर्कः।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


त्रिपदी/ त्रि--पदी f. an elephant's fetter Ragh. iv , 48 Dharmas3arm. xi , 51

त्रिपदी/ त्रि--पदी f. a kind of elephant's gait Ka1d. Vcar. xv

त्रिपदी/ त्रि--पदी f. Cissus pedata L.

त्रिपदी/ त्रि--पदी f. N. of a Prakrit metre

त्रिपदी/ त्रि--पदी f. of a composition (in music).

"https://sa.wiktionary.org/w/index.php?title=त्रिपदी&oldid=411178" इत्यस्माद् प्रतिप्राप्तम्